संघ-लोकसेवा-आयोगेन सिविल-सेवा-प्रारम्भिकपरीक्षा २०२४ इति स्थगिता ।
हिमसंस्कृतवार्ता- डॉ नरेन्द्रराणा सिरमौर: ।
संघ-लोकसेवा-आयोगेन सिविल-सेवा-प्रारम्भिकपरीक्षा २०२४ इति स्थगयितुं निर्णयः कृतः। प्राप्तवार्तानुसारं सिविलसेवा (प्रारम्भिक ) परीक्षा २०२४ अधुना अस्मिन् वर्षे जूनमासस्य १६ दिनाङ्के भविष्यति। अवधेयं वर्त्तते यत् एषा परीक्ष अस्मिन् वर्षे मईमासस्य २६ दिनाङ्के भवितुं निश्चिता आसीत् । किन्तु आगामिसामान्यनिर्वाचनस्य कारणात् लोकसेवा-आयोगेन परीक्षां स्थगयितुं निर्णयः कृतः अस्ति ।