संघलोकसेवा-आयोगेन सिविलसेवाप्रारम्भिकपरीक्षा २०२४ स्थगिता
संघलोकसेवा-आयोगेन सिविलसेवाप्रारम्भिकपरीक्षा २०२४ स्थगिता। इदानीं १६ जून दिनाङ्के एषा परीक्षा भविष्यति। इयं परीक्षा पूर्वं मे-मासस्य २६ दिनाङ्के भवितुम् अर्हति स्म । लोकसभानिर्वाचनस्य कारणेन आयोगेन परीक्षा स्थगनस्य निर्णयः कृतः अस्ति।
संघलोकसेवा-आयोगेन सिविलसेवाप्रारम्भिकपरीक्षा २०२४ स्थगिता
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment