मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – आपदा- प्रभावितेभ्य: आर्थिकसहायता न प्रदत्ता, विद्रोहिणां कृते कोटिरूप्यकाणां व्ययं करोति भाजपा
हिमसंस्कृतवार्ता- शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारेण स्वस्य सीमितसंसाधनै: २२ सहस्राधिकानाम् आपदाग्रस्तपरिवाराणां पुनर्वासस्य कार्यं कृतम्। सहस्रश: आपदापीडितानां जनानां सहायतां कृत्वा केन्द्रसर्वकारस्य साहाय्येन विना आपदापीडितानां जनानाम् आश्रयार्थं पुनर्वासार्थं च ४६०० कोटिरूप्यकाणां विशेषाश्रयसंकुलं राज्यसर्वकारेण विमोचितम्। मुख्यमन्त्री उक्तवान् यत् भाजपानेतृभिः हिमाचलप्रदेशस्य जनानां समक्षं स्वयोगदानं व्याख्यातव्यम्। हिमाचलस्य भाजपानेतारः केन्द्रीयसहायतां प्राप्तुं बाधाः सृजन्ति स्म, यस्य कारणतः हिमाचलप्रदेशस्य आपदाप्रभावितपरिवाराणां कृते विशेषसंकुलं न दत्तम्। किञ्च विद्रोहीविधायकानां हिमाचलप्रदेशात् बहिः महार्घेषु पञ्चतारकहोटेलेषु निवासः भवति, तत्र हेलिकॉप्टर- चार्टर- विमान- भ्रमणस्य कृते ते नीताः सन्ति, तेषां सुरक्षायाः कृते भाजपा अपि महत् धनं व्यययति।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् यदा यदा हिमाचलस्य हितस्य विषयः आगच्छति स्म तदा तदा भाजपा नेतारः हिमाचलविरोधी मुखं दर्शयन्ति स्म। राज्यस्य जनाः अधुना भाजपानेतृभ्यः उत्तरं याचन्ते किन्तु तेभ्यः उत्तरं दातुं न शक्नुवन्ति। सः अवदत् यत् विधानसभायाः मानसूनसत्रे यदा हिमाचलप्रदेशे आपदां राष्ट्रिय-आपदं घोषयितुं विशेष-आर्थिक-संकुलं दातुं च प्रस्तावः प्रस्तुतः, तदा भाजपानेतारः चर्चायाः कालखण्डे त्रिदिवसं यावत् वार्तालापं कुर्वन्ति स्म, परन्तु यदा मतदानस्य क्रम: आगतः तदा ते हिमाचलप्रदेशस्य जनै: सह न स्थितवन्तः। एते जनाः हिमाचलस्य शुभचिन्तकाः भवितुम् अर्हन्ति वा?
सः अवदत् यत् वर्तमानः राज्यसर्वकारः कदापि राजनैतिकलाभस्य किमपि अभिप्रायेन कार्यं न करोति यतोहि अस्माकं कार्ये मानवता, सेवाभावना च सर्वोपरि वर्तते। अत एव वयम् आपदाग्रस्तानां जनानां साहाय्यार्थं नियमेषु परिवर्तनं कृतवन्तः। ४६०० कोटिरूप्यकाणां विशेषं आर्थिकसंकुलं प्रदातुं वयं आपदाकाले पूर्वमेव प्रदत्तस्य साहाय्यस्य परिमाणे अपूर्वां वृद्धिं कृतवन्तः। एतत् ऐतिहासिकम् आश्रयसंकुलं यत् कस्यापि प्राकृतिकविपदायाः समये घोषितं भवति।
मुख्यमन्त्री उक्तवान् यत् अहं सामान्यपरिवारात् मुख्यमन्त्रीपदं प्राप्तवान् अस्मि तथा च सामान्यजनस्य पीडां सम्यक् जानामि अतः वर्तमानस्य राज्यसर्वकारस्य प्रत्येकं निर्णयः जनहिताय समर्पितः अस्ति। सः अवदत् यत् भाजपा केवलं राजनीतिं करोति, यदा तु काङ्ग्रेसः सेवाभावेन कार्यं कर्तुं विश्वसिति। सः अवदत् यत् राज्यस्य जनाः भाजपायाः आचरणं सम्यक् अवलोकितवन्तः, भविष्ये जनाः भाजपायै पाठं पाठयिष्यन्ति।