Lok Sabha Election 2024: आचारसंहिताया: प्रवर्तनात् इन्दिरागांधी- प्रियभगिनी- सुखसम्मान- निधियोजनाया: प्रपत्रात् मुख्यमन्त्री इन्दिरागान्धी च इत्येतयो: छायाचित्रे अपहृते
हिमसंस्कृतवार्ता- शिमला।
लोकसभानिर्वाचनस्य आदर्श- आचारसंहिताया: प्रवर्तनात् इन्दिरागांधी- प्रियभगिनी- सुखसम्मान- निधियोजनाया: प्रपत्रात् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः इन्दिरागान्धी च इत्येतयो: चित्रे अपहृते। अस्या: योजनाया: अन्तर्गतं सर्वकारेण महिलाभ्य: मासिकं १५०० रूप्यकाणां वृत्तिंदातुं प्रावधानं कृतम् अस्ति। अधुना तहसीलकल्याणकार्यालये छायाचित्ररहितानि प्रपत्राणि प्रस्तूयन्ते, परन्तु आचारसंहिताया: निवृत्यनन्तरमेव प्रकरणेषु अधिका कार्यविधि: भविष्यति।
योजनाप्रपत्रे इन्दिरागान्धी-सुक्खु: इत्येतयोः छायाचित्रे आस्ताम्
कतिपयदिनानि पूर्वं राज्यसर्वकारेण राज्ये सर्वत्र १८ वर्षाणाम् उपरि बालिकानां महिलानां च मासिकवृत्तिं १५०० रूप्यकाणि दातुं घोषणा कृता आसीत्। तदर्थं निर्गते प्रपत्रे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः पूर्वप्रधानमन्त्री इन्दिरागान्धी इत्येतयोः च छायाचित्रे आस्ताम्। महिलानां मध्ये आवेदनस्य उत्साहः वर्तते तथा च जन्मप्रमाणपत्रं, हिमाचलीप्रमाणपत्रम् इत्यादीनि प्रपत्राणि सज्जीकर्तुं जिलाचिकित्सालयेषु अन्येषु स्थानेषु च जनसमूहः एकत्रितः अस्ति।
इदानीm आचारसंहितायां कार्यान्वयनानन्तरं योजनायाः प्रपत्राणि पूरयितुं भ्रमः अभवत्, यतः निर्वाचन-आयोगेन २४ होराणामन्त: सर्वकारस्य प्रचारसम्बद्धं सामग्रीं हर्तुं आदेशः दत्तः आसीत् एतादृशे सति योजनाप्रपत्रे मुख्यमन्त्रिण: पूर्वप्रधानमन्त्रिण: च छायाचित्रकारणात् कार्यालये प्रपत्राणि गृहीतुं न शक्यते स्म ।
जालपुटे छायाचित्रं विना प्रपत्रम् उपलब्धम्
इतरथा अनुसूचितजातीयानां, ओबीसी अल्पसंख्याकानां विशेषसक्षमजनानाञ्च सशक्तिकरणविभागेन द्वयोः छायाचित्रे अपहृत्य प्रपत्रे परिवर्तनं कृत्वा जालपुटे छायाचित्ररहितं प्रपत्रं स्थापितमस्ति। महिलाः एतत् प्रपत्रं पूरयित्वा प्रस्तोतुं शक्नुवन्ति। प्रपत्राणि केवलं प्रस्तूयन्ते, अस्मिन् विषये आचारसंहिताया: निवृत्यनन्तरमेव अधिका कार्यविधि: भविष्यति। जनाः esoma.hp.gov.in इत्यस्मात् नूतनस्य प्रपत्रस्य अधोभारणं (डाउनलोड) कर्तुं शक्नुवन्ति।