Lok Sabha Election 2024 : आचारसंहिताया: अतिक्रमणं महार्घं भविष्यति, १०० पलात्मकेषु भविष्यति कार्यविधि:
हिमसंस्कृतवार्ता- शिमला।
लोकसभानिर्वाचनकाले (२०२४) निर्वाचनायोगः आदर्शाचारसंहितायां उल्लङ्घनस्य उपालम्भानां निराकरणं १०० मिनिट मध्ये करिष्यति। अस्मिन् काले निर्वाचन-आयोगस्य दलम् उपालम्भानां निराकरणं करिष्यति तथापि उपालम्भस्य निराकरणे कृतस्य कार्यस्य विषये अपि सूचयिष्यति।
अस्य कृते निर्वाचन-आयोगेन सामान्यजनानाम् कृते सीविजिल- अनुप्रयोगस्य (cVIGIL app ) मार्गेण उपालम्भं दातुं सुविधा प्रदत्ता अस्ति। एतेन माध्यमेन मतदातार: गृहे उपविश्य आदर्शाचारसंहितायां उल्लङ्घनस्य उपालम्भं दातुं शक्नुवन्ति। गतविधानसभायां cVIGIL app इत्यस्य सफलतां दृष्ट्वा निर्वाचन-आयोगेन लोकसभानिर्वाचनेषु अपि अस्य अनुप्रयोगस्य अधिकं उपयोगः कर्तुं निर्णयः कृतः।
गृहे उपविश्य एप्-माध्यमेन जनाः उपालम्भं दातुं शक्नुवन्ति
अस्य अनुप्रयोगस्य माध्यमेन कोऽपि उपालम्भकर्ता छायाचित्रं अथवा विडियो-सन्देशं प्रेषयित्वा स्वस्य उपालम्भस्य पञ्जीकरणं कर्तुं शक्नोति। निर्वाचनायोगेन अस्य अनुपु मार्गेण प्राप्तस्य उपालम्भस्य निराकरणाय १०० मिनिटात्मक: समयः निर्धारितः अस्ति।
एतादृशी परिस्थितौ इदानीं जनाः गृहे उपविश्य निर्वाचनसम्बद्धान् उपालम्भान् कर्तुं शक्नुवन्ति। तेषां कार्यालयं गत्वा उपालम्भं दातुं न प्रयोजनं भविष्यति। हिमाचलप्रदेशविधानसभानिर्वाचनम्- २०२२ मध्ये कुलम् १७७९ उपालम्भा: प्राप्ताः, येषु १०१३ उपालम्भा: cVIGIL अनुप्रयोगस्य माध्यमेन प्राप्ताः।
एवं कार्यं करिष्यति cVIGIL अनुप्रयोग:
अस्मिन् अनुप्रयोगे उपालम्भ: आगच्छति एव। एष: उपालम्भ: तत्क्षणमेव सम्बन्धितक्षेत्रे नियोजितस्य निर्वाचन-आयोगस्य दलस्य समीपं गच्छति। स्थानस्य समीपस्थं दलं तत्क्षणमेव स्थानं प्राप्य कार्यं करोति ।
अनुप्रयोग: ज्ञास्यति यत् वाहनं कर्तव्यक्षेत्रात् बहिः अस्ति वा
cVIGIL इत्यस्य माध्यमेन निर्वाचनायोगः कार्यालयात् एव सर्वेषां वाहनानां उपरि अपि दृष्टिम् स्थापयति। अस्य अन्तर्गतं प्रत्येकस्मिन् वाहने जीपीएस स्थापितं अस्ति, यत् अनुप्रयोगेन सह सम्बद्धम् अस्ति । एतेन ज्ञायते यत् किमपि वाहनम् स्वस्य कर्तव्यक्षेत्रात् बहिः गच्छति वा इति । यदि एतत् लभ्यते तर्हि तत्क्षणमेव सम्बन्धित-अधिकारिणः दूरभाषेण सूचिताः भवन्ति।