जयरामठाकुरः – सर्वकारस्य भविष्यं नास्ति, परन्तु अधिकारिणः स्वस्य भविष्यं न दूषयन्तु
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
विपक्षस्य नेता जयरामठाकुरः भाजपाविधायकैः सह पत्रकारसम्मेलने राज्यसर्वकारस्य अधिकारिणः सचेतितवान्। जयरामठाकुरः अवदत् यत् सम्प्रति काङ्ग्रेससर्वकारस्य लोकप्रियता पूर्वमेव समाप्ता अस्ति, परन्तु अधुना तस्य बहुमतमपि नास्ति। अस्य सर्वकारस्य भविष्यं नास्ति। अतः अधिकारिणः मनसि धारयन्तु यत् अस्य सर्वकारस्य नामधेयेन तेषां भविष्यं न दूषयितव्यम्। केचन अधिकारिणः मर्यादाया: अतिक्रमणं कुर्वन्ति। जयरामठाकुरः अवदत् यत् भाजपायाः कारणेन काङ्ग्रेससर्वकारः दुर्बलः न अभवत् किन्तु काङ्ग्रेसविधायकैः सर्वकारे यः आक्रोशस्य स्तरः सृजित: सः एतादृशः आसीत् यत् काङ्ग्रेसविधायकाः दलस्य अभिकर्त्रे दर्शयित्वा भाजपा प्रत्याशीं मतदानं कृतवन्तः। जयरामठाकुरः अवदत् यत् काङ्ग्रेसजनाः भाजपायाः उपरि सर्वकारस्य पतनस्य आरोपं कुर्वन्ति, परन्तु तेभ्य: स्वस्थिते: मूल्याङ्कनं करणीयम्। एते विद्रोहिन: काङ्ग्रेसनेतारः दलस्य आधिकारिकम् अभिकर्तारं प्रति स्वमतं दर्शयित्वा पारमतदानं कृतवन्तः एव। एते नेतारः वदन्ति यत् सर्वकारेण तेषां अवमानना कृता। एतादृशे सति तेषां अन्यः विकल्पः नासीत्। एतेषां विद्रोहीनेतृणां भाजपायां सम्मिलितस्य प्रश्ने जयरामठाकुरः अवदत् यत् एते विधायकाः राज्यसभानिर्वाचने भाजपायाः समर्थनं कृतवन्तः। एतादृशी परिस्थितौ भाजपा अपि विधायकानां कृते सम्मानं दास्यति।
दलस्य शीर्षनेतृत्वम् अपि एतेषां नेतॄणां विषये विचारं करिष्यति, विधानसभा उपनिर्वाचने सर्वकाराय उत्तरं दीयते। मण्डीलोकसभासनस्य प्रत्याशिरूपेण चितस्य समाचारस्य विषये विपक्षनेता अवदत् यत् मण्डीलोकसभाक्षेत्रे भाजपायां बहवः कर्मठाः कार्यकर्तारः सन्ति। राज्यस्य स्थितिं दृष्ट्वा कोऽपि दलम् भाजपा वा काङ्ग्रेसः वा स्वविधायकं लोकसभाप्रत्याशीरूपेण न प्रस्थापयिष्यति। अभ्यर्थीनां दृष्ट्या भाजपा पूर्वमेव तेभ्यः अग्रे अस्ति। भाजपायाः द्वयोः आसनयोः अभ्यर्थिनः निर्णयः कृतः, भाजपा शीर्षनेतृत्वं शीघ्रमेव अन्ययोः आसनयोः अभ्यर्थीनां नामनिर्णयं करिष्यति। अधुना काङ्ग्रेसः लोकसभानिर्वाचनस्य अभ्यर्थिनः न प्राप्नोति। जयरामः अवदत् यत् काङ्ग्रेसः इदानीं तान् विधायकान् स्थापयितुं न शक्नोति येषाम् उपरि द्यूतं कर्तुं गच्छति स्म।