Himachal News: अयोग्यविधायकै: सर्वोच्चन्यायालयात् आश्रय: न प्राप्त:, विधानसभा- अध्यक्षाय तथा निर्वाचनायोगाय सूचनापत्रम् निर्गतम्
हिमसंस्कृतवार्ता- नवदेहली।
दलस्य सचेतनाया: उल्लङ्घनस्य कारणेन हिमाचलप्रदेश- विधानसभायाः अयोग्यानां षट्काङ्ग्रेसविधायकानां प्रकरणस्य सोमवासरे सर्वोच्चन्यायालये श्रवणम् अभवत्। यस्मिन् सर्वोच्चन्यायालयेन हिमाचलप्रदेशस्य विधानसभाध्यक्षस्य कुलदीपसिंहपठानियावर्यस्य कार्यालयात् षट्काङ्ग्रेसविद्रोहिणः अयोग्यतायाः विरुद्धं याचिकायां प्रतिक्रिया याचिता अस्ति।
अयोग्यविधायकाः विधानसभाकार्यविधौ भागं ग्रहीतुं न शक्ष्यन्ति- सर्वोच्चन्यायालय:
सर्वोच्चन्यायालयेन एतदपि उक्तं यत् तेषां याचिकायाः निर्णयपर्यन्तं विद्रोही हिमाचलप्रदेशकाङ्ग्रेसविधायकानां मतदानं वा विधानसभाकार्यविधौ भागं ग्रहीतुं वा अनुमतिः न भविष्यति। अयोग्यविधायकानां सर्वोच्चन्यायालयात् स्थगितत्वं न प्राप्तम्।
विधानसभा अध्यक्षाय सूचनापत्रम् निर्गतमम् अस्ति। तदतिरिक्तं चतुर्सप्ताहान्तरे तेभ्यः उत्तरमपि प्राप्तम् अस्ति। एतत् एव न, रिक्तासनेषु उपनिर्वाचनं कर्तुं निर्वाचनायोगाय अपि सूचनापत्रम् निर्गतमस्ति। अस्मिन् प्रकरणे अग्रिमं श्रवणं मई ६ दिनाङ्के भविष्यति। विधानसभाबजटसत्रे संसदीयकार्याणां मन्त्री हर्षवर्धनचौहानस्य उपालम्भं श्रुत्वा विधानसभासभापतिना एते: विधायका: अयोग्या: घोषिता:।
षट् रिक्तासनेषु भविष्यति उपनिर्वाचनम्
एते नेतारः सर्वोच्चन्यायालये विधानसभाध्यक्षस्य निर्णयस्य विरुद्धं आह्वानम् कृतवन्तः आसन्। सर्वोच्चन्यायालयेन गतविचारे तान् पृष्टम् आसीत् यत् ते किमर्थं उच्चन्यायालयं न गता:, किमर्थं ते प्रत्यक्षतया सर्वोच्चन्यायालयम् आगता: इति। इदानीं शनिवासरे निर्वाचनायोगेन एतेषां विधायकानां विधानसभाक्षेत्राणि रिक्तानि इति मत्वा उपनिर्वाचनानि घोषितानि। जूनमासस्य प्रथमदिनाङ्के भवितुं शक्नुवन्तः संसदनिर्वाचनेन सह एतेषु क्षेत्रेषु अपि मतदानस्य समयसूची प्रकाशिता अस्ति।
उभौ दलौ मंथनम् आरब्धवन्तौ, रणनीतिं परिवर्तयितव्या भविष्यति। सम्भवतः कोऽपि अवगतः नासीत् यत् लोकसभानिर्वाचन- २०२४ इत्यनेन सह षडासनेषु विधानसभा उपनिर्वाचनं घोषितं भविष्यति।
राज्यसभानिर्वाचने विधायकाः भाजपाप्रत्याशिनं मतदानं कृतवन्तः
अधुना काङ्ग्रेसदलं भाजपादलं च अस्य विषये मंथनं प्रारब्धवन्तौ। अभ्यर्थीनां चयनार्थं द्वयोः दलयोः परिश्रमं कर्तव्यं भविष्यति। अयोग्यतां प्राप्ताः काङ्ग्रेसविधायकाः राज्यसभानिर्वाचने भाजपाप्रत्याशिनं मतदानं कृतवन्तः आसन्। सार्धैकवर्षे कार्याभावात् ते रुष्टा: इति कथयन्ति। ते स्वक्षेत्रेषु स्थापिताः नेतारः सन्ति, तेभ्य: जनानां समर्थनं च वर्तते। एतेषु षट् निर्वाचनक्षेत्रेषु काङ्ग्रेसेन नूतना: प्रत्याशिन: स्थापयितुं प्रवृत्ताः भविष्यन्ति, यदा तु भाजपायाः समक्षं आह्वानं वर्तते यत् तेभ्यः नामपत्रं दातव्यं वा गतनिर्वाचने पराजितस्य स्वस्य नेतु: विषये विश्वासो विधातव्य: वा। अस्मिन् विषये पक्षद्वयेन रणनीतयः सज्जीकर्तुं आरब्धाः सन्ति।