अद्यतनः संघर्षः न केवलं भाजपा-काङ्ग्रेसयोः मध्ये अपितु द्वयोः विचारधारयोः – राहुलगान्धी
काङ्ग्रेसनेता राहुलगान्धी उक्तवान् यत् अद्यतनः संघर्षः केवलं भारतीयजनतापक्षस्य काङ्ग्रेसस्य च मध्ये न अपितु विचारधाराद्वयस्य मध्ये अस्ति। दक्षिणमुम्बईनगरस्य तेजपालभवने जनसभां सम्बोधयन् सः अवदत् यत् एकतः काङ्ग्रेसः सत्ताविकेन्द्रीकरणे बलं ददाति, अपरतः सत्ताधारीपक्षस्य विचारधारा अस्ति यत् देशे केन्द्रात् शासनं कर्तव्यम् इति। राहुलगान्धी मुम्बईनगरस्य महात्मागान्धिनः निवासस्थानात् मणिभवनतः अगस्तक्रांति मैदानं यावत् न्यायसंकल्पपदयात्राम् अकरोत्।
राहुलगान्धिनः भारतजोड़ो इति न्याययात्रायाः समापनसभा गतसायंकाले शिवाजीपार्क इत्यत्र अभवत्। अस्यां सभायां राहुलगान्धी किञ्च दलस्य महासचिवा प्रियंका गान्धी वाडरा, राकांपा प्रमुखः शरदपवारः तमिलनाडोः मुख्यमन्त्री एम.के. स्टालिनसहिताः इण्डी-गठबन्धनस्य प्रमुखाः नेतारः उपस्थिताः आसन् ।
अद्यतनः संघर्षः न केवलं भाजपा-काङ्ग्रेसयोः मध्ये अपितु द्वयोः विचारधारयोः – राहुलगान्धी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment