मुख्यमन्त्री बिलासपुरजनपदस्य चतुर्भ्य: विधानसभाक्षेत्रेभ्य: ४४५ कोटिरूप्यकाणां उपहारं दत्तवान्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः शनिवासरे बिलासपुरजनपदस्य एकदिवसीयप्रवासस्य अन्तर्गतं झंडूता श्रीनैनादेवीजी, घुमारवीं एवं सदर- बिलासपुरं इत्येतेभ्य: विधानसभाक्षेत्रेभ्य: ४४५ कोटिरूप्यकाणां ३७ विकासात्मकपरियोजनानां उपायनं दत्तवान्।
मुख्यमन्त्री पंजपीरी-कुटैहला-बागछाल-सम्पर्क-मार्गे गोविन्दसागर-जलाशये ६४ कोटिरूप्यकाणां व्ययेन निर्मितस्य ३३० मीटर् दीर्घस्य सेतो: उद्घाटनं कृतवान्। अयं सेतुः भारतस्य दीर्घतमस्य कैन्टिलीवरसेतो: अन्तर्गतम् अस्ति। अयं सेतु: श्रीनैनादेवीजी, झण्डुता विधानसभाक्षेत्रयो: जनेभ्य: यातायातस्य सुविधा उपलप्स्यते, घुमारवींक्षेत्रस्य जनै: सह झंडूता विधानसभाक्षेत्रस्य जनेभ्य: बिलासपुरं किरतपुरं च प्राप्तुं सुगमता भविष्यति।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः १.२१ कोटिरूप्यकै: निर्मितस्य कलोल-उपथहसीलस्य भवनस्य ३.७९ कोटिरूप्यकाणां व्ययेन निर्मितस्य बहुतकनीकीमहाविद्यालयस्य कलोलस्य भवनस्य लोकार्पणं कृतवान्। सः १.४१ कोटिरूप्यकाणां व्ययेन निर्मितस्य ऋषिकेशस्य प्राथमिकस्वास्थ्यकेन्द्रस्य, १.१८ कोटिरूप्यकाणां व्ययेन निर्मितस्य बरठींक्षेत्रस्य कृषिविज्ञानकेन्द्रस्य भवनस्य, कारवींनालस्य १८.३३ कोटिरूप्यकाणां मूल्यस्य विभिन्नजलापूर्तियोजनानां उन्नयनकार्यस्य च उद्घाटनं कृतवान्।
मुख्यमन्त्री घुमारवींविधानसभा निर्वाचनक्षेत्रस्य गतोलतः नेरी नरोलपर्यन्तं मार्गे १.६४ कोटिरूप्यकाणां व्ययेन निर्मितस्य सेतो: घुमारवींस्थे उपजिल्लान्यायवादी सहायकमहान्यायवादी, लोक अभियोजकस्य कार्यालयानां च उद्घाटनम् अकरोत्। स: ९.८४ कोटिरूप्यकाणां व्ययेन हटवाड़मार्गेण लदरौर- जाहू- मार्गः उन्नयनं कार्यम्, मोहरा-सुनाली-सुक्कर-खड्ड इत्यत्र ३.५९ कोटिरूप्यकै: निर्मितस्य मार्गस्य, ५.७० कोटिरूप्यकाणां मूल्येन निर्मितस्य घुमारवींतः टिक्कर- सिलहपर्यन्तं मरहैल-सोई-रोपड़ी-मार्गस्य, २.५२ कोटिरुप्यकाणां व्ययेन निर्मितस्य मेहरान च मेहरण- नैन- जलौण- पंगवारा- तलाई- कोलीबस्ती- टकरेहड़ा- सलून मंडल खिलस्य मार्गस्य उद्घाटनम् अकरोत्।
मुख्यमन्त्री ५.८७ कोटिरूप्यकाणां बुहारतः मल्होटपर्यन्तं मार्गस्य, ५.४२ कोटिरूप्यकाणां ढोलग-चकनाड़तः गाहपर्यन्तं मार्गस्य, २५.७० कोटिरूप्यकाणां बरोहातः कोहिनापर्यन्तं मार्गस्य, जड्डू-बड़गांव-गलू मार्गस्य ६.२९ कोटिरूप्यकाणां मरोतनत: धानीमार्गस्य, ६.७९ कोटिरूप्यकाणां भल्लूतः बलघडपर्यन्तं मार्गस्य आधारशिलाम् अस्थापयत्।
तेन बागछालतः कलोलमार्गेण तलाईपर्यन्तं ५७.८८ कोटिरूप्यकाणां उन्नयनकार्यस्य, तहसीलझण्डुतायां १.४४ कोटिरूप्यकाणां उत्थापनसिंचनयोजनायाः बलरा- सुन्हाणी- उन्नयनकार्याणां तहसीलझण्डुताया: लिफ्टसिंचनयोजनायाः १.९८ कोटिरूप्यकाणां टिहरी- बकैन- रीरहोड़स्य संवर्धनकार्याणां आधारशिलाम् अस्थापयत्।
श्रीनैनादेवीजी विधानसभाक्षेत्रे ३.८२ कोटिरूप्यकाणां स्वारघाट- श्रीनैनादेवी- भाखड़ा- खरकड़ी-मार्गस्य, ३०.०६ कोटिरूप्यकाणां गलवात: ग्वालथाई-मार्गस्य स्तरोन्नयनकार्यस्य, १३.९२ कोटिरूप्यकाणां बैहलत: स्वाहनं लखाला भूत्वा मार्गस्य, ६.९६ कोटिरूप्यकाणां बनेर-जगतखाना मार्गस्य तथा ७.०७ कोटिरूप्यकाणां टोबा- ग्वाल्थाईतः धरोटमार्गस्य स्तरोन्नयनकार्याणां शिलान्यासान् कृतवान्।
घुमारवींविधानसभा निर्वाचनक्षेत्रे मुख्यमन्त्री ६.९८ कोटिरूप्यकाणां व्ययेन निर्मितस्य तरघेलतः लदौरपर्यन्तं मार्गस्य, ७.५२ कोटिरूप्यकाणां व्ययेन गाहरतः खेतपर्यन्तं मार्गस्य, ४.७७ कोटिरूप्यकाणां व्ययेन निर्मितस्य सुम्बरीतः भजरालपर्यन्तं निम्नमार्गस्य, ९.२१ कोटिरूप्यकाणां मूल्येन निर्मितस्य राहिया- अमरपुर- हड़सर- घुमारवीं सुनहाणीत: तुंगड़ीमार्गस्य, ५ कोटिरूप्यकाणां राजीवगांधी-राजकीय आदर्शदिवस- बोर्डिंगविद्यालयस्य ९.९१ कोटिरूप्यकाणां ढिंगुत: सुकड़ीसम्पर्कमार्गस्य, घुमारव्यां २ कोटिरूप्यकाणां कौशलविकासकेन्द्रस्य ३.९२ कोटिरूप्यकाणां व्ययेन ३३ केवी विद्युतकेन्द्रस्य एवं ६४.८४ कोटिरूप्यकाणां १३२ केवीए उपकेन्द्रस्य आधारशिला: अस्थापयत्।
मुख्यमन्त्री ५.६१ कोटिरूप्यकाणां ढलीतः बन्दला मियां मार्गस्य, ९.४६ कोटिरूप्यकाणां धार- टटोह- दरोबड़- सरायंघाटी मार्गस्य, ८.३४ कोटिरूप्यकाणां पंचायतगृहहरनोड़ातः बोहट कसोलमार्गस्य, ७.२७ कोटिरूप्यकाणां कुठेड़ातः बाड़ीब्राह्मणमार्गस्य च शिलान्यासं कृतवान्।