मन्त्री विक्रमादित्यसिंह: लोकनिर्माणविभागस्य १०२ नूतनयन्त्राणि हरितध्वजं प्रदर्श्य समर्पितवान्
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशस्य लोकनिर्माणं नगरविकासमन्त्री विक्रमादित्यसिंहः शनिवासरे हिमाचलप्रदेशस्य लोकनिर्माणविभागाय तारादेवीतः २३ कोट्याधिकानां रुप्यकाणां मूल्येन क्रीतानां १०२ नवीनयन्त्रेषु मध्ये १४ यन्त्राणि हरितध्वजं प्रदर्श्य समर्पितवान्। विक्रमादित्यसिंहः अवदत् यत् एतानि यन्त्राणि GeM पटलमार्गेण क्रीतानि, येन कारणतः प्रायः १० कोटिरूप्यकाणां रक्षणं कृतम् अस्ति। असौ लोकनिर्माणविभागाय एतानि यन्त्राणि क्रेतुं मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: धन्यवादं प्रकटितवान्।
सः अवदत् यत् एतानि यन्त्राणि प्रत्येकं उपविभागं प्रति प्रेषयिष्यये येन वयं आपदि अन्यस्य वा घटनायाः निवारणे किमपि समस्यां न प्राप्नुमः। सः अवदत् यत् गतवर्षे वर्षा-आपदायाः कारणेन क्षतिं मनसि कृत्वा राज्यसर्वकारेण केचन निर्णायकाः निर्णयाः कृताः, येषु एतानि यन्त्राणि क्रीतानि सन्ति।