प्रधानमन्त्री मोदी स्वमन्त्रिभ्यः अधिकारिभ्यः शतदिनस्य मार्गचित्रं सज्जीकर्तुम् उक्तवान्
हिमसंस्कृतवार्ता:- प्रवीणकुमार: नवीदिल्ली। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे स्वमन्त्रिमण्डलमन्त्रिभ्यः नूतनसर्वकारस्य प्रथमशतदिनानाम् आगामिपञ्चवर्षाणाम् च मार्गचित्रं सज्जीकर्तुम् उक्तवान्। १७ मार्च दिनाङ्के प्रातःकाले केन्द्रीयमन्त्रिमण्डलस्य सभायाः अध्यक्षतां कुर्वन् प्रधानमन्त्री मन्त्रिभ्यः स्वस्वमन्त्रालयस्य सचिवान् अन्यैः अधिकारिभिः च मिलित्वा नूतनसर्वकारस्य प्रथमशतदिनानाम् आगामिपञ्चवर्षस्य च कार्यसूचनायाः विषये चर्चां कर्तुं पृष्टवान्, कथं कार्यान्वितुं शक्यते समीचीनतर? निर्वाचन- आयोगेन लोकसभानिर्वाचनस्य कार्यक्रमस्य घोषणायाः एकदिनानन्तरं एषा सभा अभवत्। मन्त्रिमण्डलेन निर्वाचन- आयोगस्य अनुशंसा राष्ट्रपतिद्रौपदी मुर्मू इत्यस्यै प्रेषयित्वा सप्तचरणीयसंसदीयनिर्वाचनस्य तिथयः सूचयितुं प्रक्रिया अपि आरब्धा। प्रथमचरणस्य अन्तर्गतं १९ अप्रेल दिनाङ्के १०२ आसनेषु मतदानार्थं प्रथमा अधिसूचना २० मार्च दिनाङ्के निर्गता भविष्यति। सूचना मुक्तमात्रेण तस्य चरणस्य नामाङ्कनप्रक्रिया अपि आरभ्यते।
प्रधानमन्त्रिमोदिनः अध्यक्षतायां ३ मार्च-दिनाङ्के मन्त्रिपरिषदः सभायां “विकसितभारत: २०४७” इति दृष्टिपत्रं, आगामिपञ्चवर्षेषु विस्तृतकार्ययोजना च चर्चा कृता। तस्मिन् सत्रे मई मासे नूतनसर्वकारस्य निर्माणानन्तरं तस्य शीघ्रकार्यन्वयनस्य अनन्तरं तत्कालं पदानि ग्रहीतव्यानि इति शतदिवसीयकार्यक्रमस्य विषये चर्चा कृता । तदा सूत्रैः उक्तं यत् ‘विकसितभारतस्य’ ‘मार्गचित्रम्’ वर्षद्वयाधिकस्य गहनतया सज्जतायाः परिणामः अस्ति। सूत्रेषु उक्तं यत् अस्मिन् “समग्रसर्वकारस्य” दृष्टिकोणः अन्तर्भवति यस्मिन् सर्वैः मन्त्रालयैः राज्यसर्वकारैः, शिक्षाविदैः, उद्योगसङ्गठनैः, नागरिकसमाजैः, वैज्ञानिकसङ्गठनैः, युवानां सुझावैः च सह व्यापकपरामर्शः समाविष्टः अस्ति अस्मिन् विषये एकः अधिकारी अवदत् यत्, “विभिन्नस्तरयोः २७०० तः अधिकाः सभाः, कार्यशालाः, गोष्ठय: च आयोजिताः आसन्। २० लक्षाधिकानां युवानां परामर्शा: प्राप्ता:।
प्रधानमन्त्री मोदी स्वमन्त्रिभ्यः अधिकारिभ्यः शतदिनस्य मार्गचित्रं सज्जीकर्तुम् उक्तवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment