सुरेशकश्यप: अनुरागठाकुरयोः नामानि लोकसभानिर्वाचनार्थं प्रकाशितानि
भाजपा प्रत्याशीनां द्वितीया सूची समागता, सुरेश कश्यप: एवं अनुराग ठाकुर: द्वयो: नाम्नि अनुमोदिते।
(हिमसंस्कृतवार्ता: प्रवीणकुमार:)
शिमला,भारतीय जनता पार्टी लोकसभानिर्वाचनस्य अभ्यर्थीनां द्वितीयसूचीं प्रकाशितवती। द्वितीयसूचौ ४३ अभ्यर्थीनां नाम अनुमोदितं जातम्। तस्मिन् एव काले हिमाचल-हमिरपुर-शिमला-नगरयोः लोकसभाक्षेत्रयोः अपि अभ्यर्थीनां घोषणा कृता अस्ति ।
अनुराग ठाकुरम् हमीरपुर लोकसभा निर्वाचनक्षेत्रस्य प्रत्याशी घोषित: अस्ति। सुरेश कश्यपस्य नाम शिमलातः अन्तिमरूपेण निर्धारितम् अस्ति। तौ सम्प्रति स्वस्वलोकसभाक्षेत्रेभ्यः सांसदौ स्तः।
सुरेशकश्यप: अनुरागठाकुरयोः नामानि लोकसभानिर्वाचनार्थं प्रकाशितानि
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment