Supreme Court : विद्रोहीविधायकानां विषये सर्वोच्चन्यायालये श्रवणम्।
१८ दिनांके पुनः श्रवणम्।
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
राज्यसभानिर्वाचने विद्रोहस्य अनन्तरं काङ्ग्रेसेन षट् विद्रोहीविधायकानां विरुद्धं कार्यविधि: कृत्वा, तेषां सदस्यता निरस्तीकृता अस्ति। तदनन्तरं एते षट् विद्रोही काङ्ग्रेसविधायकाः सर्वोच्चन्यायालये याचनां कृतवन्तः आसन्, यस्य श्रवणं मंगलवासरे अभवत्।
सर्वोच्चन्यायालये न्यायाधीशः संजीवखन्ना, दीपङ्करदत्तः, न्यायाधीशः पी. के. मिश्रः च इत्येतेषां पीठिका अस्य प्रकरणस्य निरीक्षणं कुर्वती अस्ति। सम्प्रति आगामिसोमवासरे सर्वोच्चन्यायालये विद्रोही- काङ्ग्रेस- विधायकानां श्रवणं भविष्यति। तस्य अर्थः अस्ति यत् अस्माभिः मार्चमासस्य १८ दिनाङ्कपर्यन्तं प्रतीक्षा कर्तव्या भविष्यति।