HP Doctor’s Strike : अवकाशे गतेभ्य: चिकित्सकेभ्य: स्वास्थ्यनिदेशालयस्य सूचनापत्रम्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
स्वास्थ्यनिदेशालयेन अनाभ्यासवृत्ते: (एनपीए) आग्रहं कृत्वा आन्दोलनम् कुर्वद्भ्य: चिकित्सकेभ्य: सूचनापत्रम् निर्गतमस्ति। अस्मिन् सूचनापत्रे प्रायः ६० चिकित्सकेभ्य: सहसा अवकाशं गमनस्य कारणं पृष्टम् अस्ति। स्वास्थ्यनिदेशालयेन एकसप्ताहस्य अन्तः सूचनायाः उत्तरं याचितम् अस्ति। उत्तरं प्राप्य स्वास्थ्यनिदेशालयः प्रमुखकार्याणि कर्तुं शक्नोति।
उल्लेखनीयं यत् अनाभ्यासवृत्ते: आग्रहे स्थिर: चिकित्साधिकारीसंघेन पूर्वं सार्धद्विहोरां यावत् कार्य- स्थगनान्दोलनम् (पेन डाउन स्ट्राइक) आरब्धम् आसीत्, परन्तु तावत्पर्यन्तं सर्वकारस्य चिकित्साधिकारीसंघस्य च मध्ये वार्ता समाप्ता न अभवत्, राज्यस्य चिकित्सका: सर्वत्र मार्चमासस्य ७ दिनाङ्के सामूहिकावकाशं गन्तुं निर्णयं कृतवन्त: आसन्। एतस्य निर्णयस्य अनन्तरं २६०० वैद्याः सामुहिकम् अवकाशं गतवन्तः। एतेषु आकस्मिकावकाशार्थं आवेदनं न कृतवन्तः वैद्याः अपि आसन्। स्वास्थ्यविभागेन तेभ्य: सूचना प्रसारिता अस्ति।
चिकित्साधिकारीसंघेन सूचनायाः निर्गमनस्य विरोधः कृतः अस्ति। अवकाशे ये वैद्याः आसन् ते सर्वे पूर्वमेव स्वास्थ्यविभागाय सामूहिकावकाशस्य विषये सूचनां प्रेषितवन्तः इति अपि स्पष्टीकृतम्। तदपि वैद्याः लक्ष्यीक्रियन्ते। सः अवदत् यत् चिकित्साधिकारसङ्घः वैधप्रार्थनानां कृते आन्दोलनं कुर्वन् अस्ति। स्वास्थ्यविभागः, सर्वकारः च तेषां याचनाया: विषये ध्यानं दत्त्वा यथाशीघ्रं तानि पूरयितुं कार्यं कर्तव्यम्।
अवकाशस्य सूचना पूर्वमेव दत्ता आसीत्: चिकित्साधिकारीसंघः
चिकित्सा- अधिकारीसंघस्य महासचिवः डॉ. विकासठाकुरः अवदत् यत् ये वैद्याः अवकाशे सन्ति तेभ्यः सूचनापत्रस्य निर्गमनं सम्यक् नास्ति। सः अवदत् यत् संघेन एकदिवसीयसामूहिकावकाशं गन्तुं सर्वकाराय पूर्वमेव सूचितम्। एतादृशे सति स्वास्थ्यनिदेशकस्य माध्यमेन तेभ्यः कारणं दर्शयितुं सूचनां दातुं न उचितम्।
स्वास्थ्यसेवा प्रभाविता अभवत् : निदेशकः
स्वास्थ्यनिदेशकः डॉ. गोपालबैरी इत्यनेन उक्तं यत् वैद्यानां अकस्मात् अवकाशे गते सति इति कारणेन स्वास्थ्यसेवा प्रभाविता अभवन्। एतत् दृष्ट्वा एतद् सूचनापत्रम् निर्गतमस्ति। सः अवदत् यत् आगामिषु सप्तदिनेषु वैद्यैः उत्तरं दातव्यं भविष्यति। वैद्यैः उत्तरं दत्तस्य अनन्तरं अस्मिन् विषये अग्रे कार्यविधि: भविष्यति।