काङ्ग्रेसस्य द्वितीयसूची प्रकाशिता, षट् राज्यानां ४३ नामानि अन्तिमरूपेण निर्धारितानि
काङ्ग्रेसदलेन मंगलवासरे लोकसभाप्रत्याशीनां द्वितीयसूची घोषिता, यस्मिन् ४३ अभ्यर्थीनां नामानि सन्ति। विशेषं तु एतत् यत् मध्यप्रदेशस्य पूर्वमुख्यमन्त्रिणः कमलनाथस्य पुत्रं नकुलनाथं छिन्द्वरातः अवसरं दत्तं तत्रैव राजस्थानस्य पूर्वमुख्यमन्त्रिणः अशोकगहलोतस्य पुत्रवैभवगहलोताय जालोरतः अवसरं दत्तम् अस्ति। काङ्ग्रेसस्य नूतनसूचौ असमस्य १२, गुजराततः सप्त, राजस्थानस्य दश, उत्तराखण्डस्य त्रीणि, दमनदीयुतः एकः, मध्यप्रदेशस्य दश अभ्यर्थिनः सन्ति । पूर्वं ८ मार्च दिनाङ्के प्रकाशितायां काङ्ग्रेसस्य प्रथमसूचौ ३९ नामानि घोषितानि आसन्। एवं प्रकारेण काङ्ग्रेसदले अद्यावधि ८२ नामानि घोषितानि। सूचीस्थानां अभ्यर्थीनां ७६.७ प्रतिशतं आयुः ६० वर्षाणाम् अधः अस्ति ।
काङ्ग्रेसस्य द्वितीयसूची प्रकाशिता, षट् राज्यानां ४३ नामानि अन्तिमरूपेण निर्धारितानि
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment