सर्वकारेण पूर्णा कृता १५०० रुप्यकाणां वृत्तिप्रदानस्य प्रतिज्ञा महिलाभ्य: कृतं वचनं पूरितम् – जैनबचंदेल
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य महिलाकाङ्ग्रेसस्य अध्यक्षा जैनबचंदेल उक्तवती यत् काङ्ग्रेससर्वकारः सर्वदा महिलानां हितेषी एव अस्ति। हिमाचलप्रदेशे गृहनिर्माणार्थं एकलमहिलानां कृते सर्वकारः धनं ददाति तथा च सर्वाधिका प्रतिज्ञा अस्ति यत् महिलाभ्यः १५०० रूप्यकाणां वृत्तिप्रदानस्य वचनं पूरितम्। महिलाकाङ्ग्रेसः महिलाधिकाराय सदैव सज्जा वर्तते। काङ्ग्रेसदलस्य राष्ट्रियाध्यक्षा अल्का लाम्बा प्रायः २५ राज्येषु महिलानां स्वरं उत्थापितवती अस्ति । महिलान्यायस्य विषये महिलाकाङ्ग्रेसः देशे सर्वत्र महिलानां उपरि अत्याचारस्य विरुद्धं स्वरं उत्थापयति। सा रविवासरे काङ्ग्रेसकार्यालये राजीवभवने नारीन्यायसम्मानसमारोहं सम्बोधयति स्म। महिलाकाङ्ग्रेसस्य अध्यक्षा जैनबचंदेल उक्तवती यत् समाजे महिलाः केभ्यः अपि न्यूनाः न सन्ति। देशे राज्ये च स्वस्य उपलब्धिभिः स्वस्य तादात्म्यं निर्मितम् । सः अवदत् यत् अस्माभिः प्रत्येकमहिलायाः आदरः करणीयः, ता: अग्रे गन्तुं प्रेरयितुं च संकल्पः करणीयः।
सा सर्वा: महिला: एकीकृत्य महिलान्यायार्थं युद्धं कर्तुं आह्वयत् । अस्मिन्नवसरे महिलाकांग्रेसस्य शिमलाग्रामीणस्य अध्यक्षा वनिता वर्मा कार्यक्रमस्य अध्यक्षतां कृतवती कार्यक्रमे विभिन्नखण्डेभ्यः उत्तमं कार्यं कुर्वतीनां महिलानां सम्मानः कृतः।