किन्नौरस्य भावा-उपत्यकायां हिमचक्रवातस्य आघातेन त्रयः श्रमिका: मृताः, द्वौ च घातितौ
हिमसंस्कृतवार्ता- किन्नौरम्।
हिमाचलप्रदेशस्य किन्नौरजनपदस्य भावा-उपत्यकायां मुसरिंगे हिमचक्रवातस्य आघातेन त्रयः श्रमिका: मृताः, द्वौ च घातितौ। सूचनानुसारं हिमस्खलनात् पूर्वं आगतस्य प्रचण्डस्य चक्रवातस्य कारणेन श्रमिकाः विकीर्णाः अभवन् । दुर्घटनायां त्रयः श्रमिका: स्थले एव मृताः, द्वौ च घातितौ अभवन् । सूचना प्राप्तमात्रेण कम्पनी-अधिकारिणः, पुलिस-दलेन च तत्स्थानं प्राप्य मृतशरीराणि स्वस्य स्वामित्वे गृहीतानि । पीएचसी-कटगांवें एकः घातितः व्यक्तिः मृतः। सूचनाप्राप्ते सति पुलिसथानाप्रभारी भावानगरं जगदीशठाकुर:, तहसीलदार: भावानगरमपि तत्स्थानं प्राप्तवन्तौ।
पुलिसस्थानक-भावनगरात् प्राप्तसूचनानुसारं सोमवासरे अपराह्णे १:०० वादने निर्माणाधीननिजीकम्पन्याः सर्वे श्रमिकाः मध्याह्नभोजनं कुर्वन्तः आसन्, तदा सहसा हिमस्खलनस्य पूर्वं हिमचक्रवात: आगत:, श्रमिकाः तस्मिन् निरुद्धा: अभवन्। श्रमिक: सीमनकिन्डो ग्राम: उर्मी, विरयां-उराव- कूचाटोले च स्थले एव मृतौ यद्यपि तु रतनलाल: कूचाटोले झारखण्डम् पीएचसी-कटगांवे मृत:। घातित: श्रमिक: कृष्ण: महात्मागांधीचिकित्सालय: खनेरीत: रामपुरं प्रेषित: । चन्द्रनाथ: झारखण्डनिवासी इत्यस्य पीएचसी-कटगांवें चिकित्सा प्रचलति। पुलिसेन प्रकरणस्य पञ्जीकरणं कृत्वा अन्वेषणं आरब्धम् अस्ति।
किन्नौरस्य भावा-उपत्यकायां हिमचक्रवातस्य आघातेन त्रयः श्रमिका: मृताः, द्वौ च घातितौ
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग
ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001
संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Leave a comment
Leave a comment