इंडोनेशियायाः सुमात्राद्वीपे जलाप्लावेन मृतकानां संख्या षड्विंशतिः
इंडोनेशियायाः सुमात्राद्वीपे जलाप्लावेन मृतकानां संख्या समेहय षड्विंशतिः अभवत्। अकस्मात् आगतेन जलाप्तावेन भूस्खलनेन च अस्मिन् क्षेत्रे महती क्षतिः समभवत्। पश्चिमी-सुमात्राप्रान्ते गुरुवासरे वर्षाकारणात् नद्यां जलप्रवाह तीव्रः सञ्जातः अनेन कारणेन नव-जनपदेषु सहैव केषुचित् नगरेषु च जलाप्लावः समागतः। आपत्प्रबन्धन-अभिकरणेन कथितं यत् प्रभावितक्षेत्रेषु विद्युदभावेन, सेतूनां श्रतिग्रस्तेन सहैव मार्गावरोधेन च सुरक्षा कार्येषु बाधाः जायन्ते। अभिकरण- प्रवक्त्रा अब्दुल मुहारी इत्यमुना प्रोदीरितं यत् सुरक्षाकर्मिभिः पेसिसिर-सेलातान-एवं पदांग परियामान-जनपदेषु केचन शवाः प्रत्याहताः। अननैव सह मृतकानां संख्या आहत्य षड्रिंवंशति। अभवत्। मुहारी इत्यमुना कथितं यत् पश्चिम-सुमात्राप्रान्ते सप्तत्रिंशत्-सहस्त्र भवनानि जलाप्लावेन विनष्टानि सन्ति
इंडोनेशियायाः सुमात्राद्वीपे जलाप्लावेन मृतकानां संख्या षड्विंशतिः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment