CM Sukhu : मुख्यमन्त्री सोलन-विधानसभाक्षेत्रे १८६ कोटिरूप्यकाणां परियोजनानां उद्घाटनानि शिलान्यासान् च कृतवान्
हिमसंस्कृतवार्ता- सोलनम्।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: रविवासरे सोलनविधानसभाक्षेत्रस्य जनानां कृते प्रायः १८६ कोटिरूप्यकाणां विकासात्मकपरियोजनानां उपहारं दत्तवान्। सः ७ कोटिरूप्यकाणां व्ययेन निर्मितस्य ३३/११ के.वी. विद्युतोपकेन्द्रं सायरी, १.१९ कोटिरूप्यकाणां व्ययेन निर्मितस्य लोकनिर्माणविभागस्य सायरीविश्रामगृहस्य, ३.४९ कोटिरूप्यकाणां व्ययेन निर्मितस्य महोग-मतिमु-बशील-मार्गस्य लोकार्पणं कृतवान्। सः सायरी पुलिसस्थानकस्य, १२.१७ कोटिरूप्यकाणां कृषिविभागस्य उपनिदेशकस्य कार्यालयभवनस्य आवासीयपरिसरस्य च, १.८३ कोटिरूप्यकाणां जाइका-अन्तर्गतस्य कृषकप्रशिक्षणकेन्द्रस्य, १.२९ कोटिरूप्यकाणां राजस्वसदनस्य सोलनस्य, १.१० कोटिरूप्यकाणां स्ट्रीटमार्केट- बैंडर- सप्रूनस्य, ३२ कोटिरूप्यकाणां व्ययेन च निर्मितस्य बद्दी-औषधपरीक्षणप्रयोगशालायाः उद्घाटनं कृतवान्।
मुख्यमन्त्री ७.३७ कोटिरूप्यकाणां व्ययेन निर्मीयमानस्य ममलीगतः कोटपर्यन्तं मार्गस्य उन्नयनस्य, शारड़ाघाटतः डवलोगपर्यन्तं ६.०२ कोटिरूप्यकाणां व्ययेन निर्मीयमानस्य मार्गस्य उन्नयनस्य, १५.७६ कोटिरूप्यकाणां व्ययेन वाकनाघाटतः सुबाथुमार्गस्य, ७ कोटिरूप्यकाणां व्ययेन निर्मीयमानस्य च डुमैहरतः गम्बरसेतो: आधारशिलाम् अस्थापयत्। असो ५.५८ कोटिरूप्यकाणां पौघाटतः पलाहपर्यन्तं, ७.१९ कोटिरूप्यकाणां टिकरी टनाञ्जीमार्गस्य, २९.३० कोटिरूप्यकाणां सोलनतः धरजामार्गस्य च उन्नयनकार्यस्य आधारशिला: स्थापितवान्। सः ९.६० कोटिरूप्यकाणां चम्बाघाटतः सलुमणामार्गस्य, ५.११ कोटिरूप्यकाणां मूल्यस्य मालगाकूनमार्गस्य, ५.६० कोटिरूप्यकाणां व्ययेन निर्मीयमानस्य मालगातः सैन्जमार्गस्य च उन्नयनकार्यस्य शिलान्यासं कृतवान्।