प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्य आजमगढमण्डले कोटिरूप्यकाणां विकासपरियोजनानां उद्घाटनं शिलान्यासः च कृतवान्
प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्य आजमगढमण्डले चतुस्त्रिंशत्सहस्रकोटिरूप्यकाणां विकासपरियोजनानां उद्घाटनं शिलान्यासः च कृतवान्। सः अवदत् यत् ते सप्तचत्वारिंशदधिकद्विसहस्रतमवर्षपर्यन्तं भारतं विकसितं कर्तुं पूर्णरीत्या कार्यं कुर्वन्ति । असौ प्रोक्तवान् यत् प्रशासनं देशस्य यूनां कृते जीविकोपार्जनं, शिक्षां च प्रदातुं निरन्तरं कार्यं कर्तुं प्रयासरतो वर्तते। सः अवदत् यत् नागरिकेभ्यो अवसरं प्रदातुं सर्वकारः कार्यं कुर्वन् अस्ति। यद्यपि एतत् कार्यं त्रिंशत् वर्षाणि पूर्व कर्तव्यम् आसीत्। श्रीमोदिना प्रोक्तं यत् विपक्षदलेन पूर्वांचले बहुदशकानि यावत् जातिवादस्य, तुष्टीकरणस्य च राजनीतिः कृता। परञ्च विगतदशवर्षेषु अस्मिन् क्षेत्रे विकासकार्याणि विहितानि सन्ति। विगतसप्तवर्षेषु विकासस्य गतिः वर्धिता अस्ति। प्रधानमन्त्री देशे सर्वत्र पञ्चदश विमानस्थानकपरियोजनानां शिलान्यासः, उद्घाटनं च कृतवान्। एतेषां परियोजनानां व्ययः अष्टशताधिकनवसहस्ररूप्यकात्मकाणां वर्तते। श्रीमोदी पुणे, कोल्हापुर, ग्वालियर, जबलपुर, दिल्ली, लखनऊ, अलीगढ़, आजमगढ़, चित्रकूट, मुरादाबाद, श्रावस्ती, आदमपुर इत्यादीनां विमानस्थानकानां द्वादश भवनानां उद्घाटनं चापि विहितवान्। सः कदपा, हुगली, बेलागवी विमानस्थानकानाम् आधारशिलाम् चापि अस्थापयत्।
प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्य आजमगढमण्डले कोटिरूप्यकाणां विकासपरियोजनानां उद्घाटनं शिलान्यासः च कृतवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment