छत्तीसगढ़राज्ये महतारी वंदन योजनायाः शुभारम्भं कृतवान् प्रधानमंत्री
प्रधानमंत्री श्री नरेंद्रमोदी अन्तर्जालीयपटलमाध्यमेन छत्तीसगढ़राज्ये महतारी वंदन योजनायाः शुभारम्भं कृतवान्। अस्याः योजनायाः प्रथमे चरणे सप्ततिलक्षमितानां महिलानां कृते सप्तशतकोटिमिताः रूप्यकाः अन्तर्जालीयपटलमाध्यमेन प्रदत्ताः। कार्यक्रमं सम्बोधयन् सः प्रोक्तवान् यत् प्रशासनम् देशस्य त्रिकोटिमहिलाः लखपति दीदी इति विधातुं संकल्पितः वर्तते। अनया परियोजनया एताः महिलाः सशक्ताः जाताः सन्ति। असौ प्रोक्तवान् यत् ड्रोन दीदी योजना इत्यस्यान्तर्गतं प्रशासनं न केवलं ड्रोन इति यन्त्रं प्रदास्यति अपितु यन्त्र चालनस्य प्रशिक्षणं अपि प्रदास्यति। अनेन माध्यमेन महिलाः सौविध्येन कृषिकार्यं सरलतया कर्तुं शक्ष्यन्ति। छत्तीसगढ़ प्रशासनस्य महतारी वंदन योजनान्तर्गतं सप्तति लक्ष महिलानां कृते प्रत्येकं मासे एकसहस्ररुप्यकाणि प्रदास्यन्ते।
छत्तीसगढ़राज्ये महतारी वंदन योजनायाः शुभारम्भं कृतवान् प्रधानमंत्री
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment