Sangeet Natak Academy Award : राजगढ़स्य डॉ. कृष्णलालसहगलः लोकसङ्गीतक्षेत्रे संगीत- नाटक- अकादमी पुरस्कारेण पुरस्कृतः
हिमसंस्कृतवार्ता:- प्रवीणकुमार:, सिरमौर: नाहन/राजगढ़, 8 मार्च ।
हिमाचलप्रदेशस्य सिरमौरजनपदस्य राजगढ़क्षेत्रस्य प्रसिद्ध- लोकगायक: डॉ. कृष्णलाल सहगलः लोकसङ्गीतक्षेत्रे अग्रणीयोगदानस्य कृते संगीत- नाटक- अकादमीपुरस्कारेण अलङ्कृतः अस्ति। देशस्य राष्ट्रपतिः द्रौपदी मुर्मूः दिल्लीनगरे आयोजिते गौरवपूर्णे समारोहे डॉ. सहगलं पदकं, एकलक्षरूप्यकाणां नगदराशिं च प्रदत्तम्। वदामः यत् पद्मश्री विद्यानन्द सरैकस्य सम्बंध: अपि राजगढक्षेत्रेण अस्ति। डॉ. सहगलः प्रतिभां उत्तराधिकारे प्राप्तवान्। तस्य स्वर्गीयमाता स्वातन्त्र्यात् पूर्वं लाहौरनगरे तत्युगस्य चलच्चित्रेषु कार्यं कृतवती आसीत्। पिता पूर्वं संगीतवाद्ययंत्रवादने प्रसिद्धः आसीत्। डॉ. २००८ तमे वर्षे महाविद्यालयसंवर्गस्य स्वरसंगीतस्य सहायकप्रोफेसरपदात् सेवानिवृत्तः अभवत्। सहगलस्य उपलब्धीनां सूची दीर्घा अस्ति। डॉ. सहगल: पहाड़ीगीतानां रचनापश्चात् श्रव्य-दृश्यरूपेण प्रस्तुत्वा लोकगायनस्य प्रचारार्थं महती भूमिकाया: निर्वहणम् कुर्वन् अस्ति। डॉ. कृष्णलाल सहगलः अनेकेषु मञ्चेषु सङ्गीतसेवासंस्थाभिः अपि सम्मानितः अस्ति। अखिल भारतीय रेडियो दूरदर्शने अपि डॉ. सहगलः प्रस्तुतिः दत्तवान् अस्ति।
विशेषः अस्ति यत् डॉ. सहगल: लोकगीतेषु पारम्परिकवाद्ययन्त्राणां प्रयोगः सर्वदा कृतवान्। अनेन सह लोकसङ्गीतस्य मौलिकता अपि रक्षिता। तत्र न संशयः यत् डॉ. सहगलस्य मधुरस्वरस्य अद्भुतं आकर्षणं वर्तते। शब्दोच्चारणे अपि अद्वितीयप्रतिभा दृश्यते।