Himachal News : अयोग्यघोषिता: काङ्ग्रेसस्य षट्-विधायकाः, त्रयः निर्दलीया: विधायकाः च देहरादूनं स्थानान्तरिता:
हिमसंस्कृतवार्ता:- शिमला।
चण्डीगढतः देहरादूनं प्रति षट् अयोग्यकाङ्ग्रेसविधायकाः त्रय: च निर्दलीयविधायकाः स्थानान्तरिताः सन्ति। सूत्रानुसारं ते मसूरीनगरे अथवा ऋषिकेशनगरे एव स्थापिता: सन्ति। शुक्रवासरे अपराह्णे चण्डीगढतः चार्टर्ड- विमानेन देहरादूननगरं नीता:। बैजनाथे जनसभायां मुख्यमन्त्री उक्तवान् यत् चण्डीगढे स्थापिताः षट् विद्रोहीकाङ्ग्रेसविधायकाः, त्रयः स्वतन्त्रविधायकाः च अन्यत्र स्थानान्तरिताः इति। स्थानान्तरितेषु विद्रोही काङ्ग्रेसविधायकेषु इन्द्रदत्तलखनपाल:, सुधीरशर्मा, राजेन्द्र राणा, रविठाकुर:, चैतन्यब्शर्मा, देवेन्द्र भुट्टो च सन्ति। निर्दलीयविधायकानां मध्ये होशियारसिंहः, के. एल. ठाकुरः, आशीष शर्मा च सन्ति। अस्तु, षट् अयोग्यकाङ्ग्रेसविधायकाः सर्वोच्चन्यायालये विधानसभाध्यक्षस्य कुलदीपसिंहपठानियायाः निर्णयस्य विरुद्धं आह्वानम् दत्तवन्तः। अधुना सर्वोच्चन्यायालये दृष्टिः अस्ति। न्यायालयतः निर्णयस्य अनन्तरं भाजपा आगामिनी रणनीत्यां कार्यं करिष्यति। अवधेयं वर्तते यत् काङ्ग्रेस- सर्वकारस्य बहुमतम् अस्ति चेदपि राज्यसभा- आसनम् भाजपापक्षे गमनात् परं पार-मतदानं कृतवन्तः षट् विधायकाः अयोग्याः अभवन्। हिमाचलस्य विधानसभाध्यक्षः कुलदीपसिंहपठानिया पलायनविरोधी विधानस्य अन्तर्गतं कार्यविधिं कृतवान् आसीत्। विद्रोही विधायकः चण्डीगढस्य एकस्मिन् होटेले चिरकालं यावत् निवसन्ति स्म। अधुना ते उत्तराखण्डं प्रति स्थानान्तरिता: सन्ति।