जयरामठाकुरः – उपेक्षायाः कारणात् चिकित्सायाः वञ्चिता: जनाः, राज्ये वैद्यानाम् आन्दोलनेन समस्याः वर्धिताः
प्रतिपक्षस्य नेता जयरामठाकुरः अवदत् यत् राज्यसर्वकारः प्रत्येकस्मिन् विषये असफलः अभवत्। अस्य सर्वकारस्य जनहितं प्राथमिकता नास्ति। मासत्रयाधिकं गतम् अस्ति। वैद्याः तेषां प्रार्थनया: कृते आन्दोलनम् कुर्वन्ति, परन्तु तेषां आग्रहेषु सर्वकारः ध्यानं न ददाति। अस्य कारणात् एतादृशी स्थितिः उत्पन्ना यत् अधुना वैद्याः स्वकार्यस्य पूर्णतया बहिष्कारं कुर्वन्ति। सर्वकारस्य वैद्यस्य च अस्मिन् युद्धे सामान्यजनाः मर्दिताः भवन्ति। जयराम ठाकुरः अवदत् यत् एतादृशी उपेक्षा विपक्षस्य कृते स्वीकार्यः नास्ति, यत्किमपि मार्गं सर्वकारः लभते, परन्तु राज्यस्य सामान्यजनाः, ये जनाः चिकित्सायै चिकित्सालयं आगच्छन्ति, तेभ्य: समस्यायाः सम्मुखीकरणं कर्तव्यं भवति। अस्याः समस्यायाः समाधानं शीघ्रमेव सर्वकारेण अन्वेष्टव्यम्। जयरामठाकुरः गुरुवासरे कुसुम्पटी विधानसभाक्षेत्रस्य अन्तर्गतं फागुक्षेत्रे त्रिदेवस्य पंचपरमेश्वरस्य सम्मेलने च भागं स्वीकृतवान्।
अस्मिन् काले सः तत्र उपस्थितानां सर्वेषां जनानां कृते आह्वानं कृतवान् यत् यदि देशस्य विकासस्य गतिः एतादृशरीत्या अग्रे नेतव्या, भयभ्रष्टाचारविहीनं सशक्तं भारतं निर्मातव्यं च तर्हि प्रधानमन्त्रिणा नरेन्द्रमोदिना तृतीयवारं सेवां कर्तुं अवसरः प्राप्तव्य:। प्रसादयोजनायां चिन्तपूर्णीधामस्य समावेशं कृत्वा तत्र २५ कोटिरूप्यकाणां विकासपरियोजनानां प्रारम्भं कृत्वा विपक्षनेता प्रधानमन्त्रिणः धन्यवादं दत्तवान्।
कश्मीरत: कन्याकुमारीपर्यन्तं प्रचुरं जनसमर्थनम्
विपक्षस्य नेता जयरामठाकुरः अवदत् यत् नरेन्द्रमोदी कश्मीरतः कन्याकुमारीपर्यन्तं देशस्य जनानां कृते अपारं जनसमर्थनं प्राप्नोति। एतत् प्रथमवारं यत् देशस्य जनाः प्रधानमन्त्रिपदस्य व्यक्तिं द्रष्टुं एतावत् उत्सुकाः सन्ति।