Shivratri Festival : शिवस्य निनादै: शिवालयाः प्रतिध्वनिताः, महाशिवरात्रौ मन्दिरेषु विशालः जनसमूहः
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
महाशिवरात्रि-अवसरे हिमाचलस्य शिवमन्दिरेषु भक्तानां विशाल: जनसमूह: दृष्ट:। भक्ताः प्रातःकाले पङ्क्तौ स्थिताः आसन् येन भगवतः शिवस्य जलाभिषेकः भवति स्म। अस्मिन् काले काङ्गड़ामण्डलस्य काठगढशिवमन्दिरस्य बहु वैभवः दृष्टः। मन्दिरं पुष्पैः अलङ्कृतम् अस्ति, दूरतः दूरतः भक्ताः मन्दिरं प्राप्नुवन्ति।
तथैव खनियारायां स्थिते अघञ्जरमहादेवस्य बैजनाथशिवमन्दिरस्य पुरत: अपि भक्तानां विशालः जनसमूह: दृष्टः। एतदतिरिक्तं मण्डी-नगरस्य भूतनाथ- मन्दिरस्य, कुल्लू-नगरस्य बीजली-महादेव-मन्दिरस्य च भगवतः भोले-महादेवस्य दर्शनं कृत्वा अपि जनाः उत्साहिताः दृश्यन्ते स्म। मन्दिरेषु हवन-यज्ञं च अभवत्, हलवा-पूरिका प्रसादः च वितरितः।