राष्ट्रपतिः पदासीना द्रौपदी मुर्मूः नवदिल्ल्यां केन्द्रीय संस्कृत विश्वविद्यालयस्य प्रथमे दीक्षांतसमारोहे मुख्यातिथित्वेन सहभागितां विहितवती।
राष्ट्रपतिः द्रौपदी मुर्मूः संस्कृतं राष्ट्रभाषा देशवाणित्वेन परिभाषितवती । राष्ट्रपतिना समुदीरितं यत् संस्कृतभाषायां भारतस्य सांस्कृतिकन्यासः संयुक्तः वर्तते। अनेकाः भारतीयभाषाः संस्कृतशब्देभ्यः समृद्धाः भूत्वा देशस्य विभिन्नेषु भागेषु पुष्पिकाः पल्लविताः जाताः। सा अब्रवीत् यत् संस्कृतेन लिखिता रामकथा भारतीयसंस्कृतेः आधारशिला विद्यते सममेव भारतस्य जनचेतना संस्कृते एव प्रतिध्वन्यते। अवसरेऽस्मिन् केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः अवोचत् यत् संस्कृतभाषायामेव भारतीयसंस्कृतेः मूलभूतशिलास्ति । प्रशासनेन संस्कृतभाषायाः विकासाय नक्की महत्वपूर्णाः पदक्षेपाः विहिताः । अत्रान्तरे त्रयोदशसहस्त्राधिकछात्रेभ्यः उपाधिः प्रदत्तः । अवधेयास्पदमस्ति यत् एषः केन्द्रीय संस्कृत विश्वविद्यालयः जगतः बृहत्तमेषु बहुपरिसरभाषा विश्वविद्यालयेषु अन्यतमः अस्ति।