HRTC Bus Service: हमीरपुरतः अयोध्यापर्यन्तं आरब्धा हिमाचलपथपरिवहननिगमस्य बससेवा
हिमसंस्कृतवार्ता- हमीरपुरम्।
हिमाचलपथपरिवहननिगमस्य हिमाचलप्रदेशस्य हमीरपुरतः अयोध्यापर्यन्तं बुधवासरे बससेवा आरब्धा अस्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवाहदेवी- हमीरपुर- अयोध्या बससेवायाः हरितध्वजं प्रदर्श्य शुभारम्भं कृतवान्। अस्मिन्नवसरे विधायक: संजयरतन:, सुरेशकुमार: व मलेन्द्रराजन:, पूर्वविधायक अनितावर्मा मंजीतडोगरा, कांगड़ा सहकारीप्राथमिककृषि- एवं- ग्रामीण- विकासवित्तकोषस्य अध्यक्ष रामचन्द्र पठानिया, एपीएमसी अध्यक्ष अजय शर्मा, जिलाकांग्रेसस्य अध्यक्ष: सुमन भारती, वरिष्ठकांग्रेसनेता पुष्पेन्द्र वर्मा, एमडी एचआरटीसी रोहनचंदठाकुर:, उपायुक्त: हमीरपुरम् अमरजीतसिंह:, एसपी हमीरपुरं पदमचंद: आदय: उपस्थिता: अभवन्।
अवधेयं वर्तते यत् प्रथमचरणे हिमाचलतः अयोध्यापर्यन्तं त्रयः मार्गाः अनुमोदिताः सन्ति। अस्य अन्तर्गतं शिमला- ऊनात: अयोध्यानगरं प्रति बस-सेवा अपि आरभ्यते। एचआरटीसी धार्मिकपरिपथयोजनायाः अन्तर्गतम् अयोध्यानगरं प्रति बसयानानां संचालनम् आरभते। द्वितीयचरणस्य नालागढ- मनाली- धर्मशाला- नगरात् अयोध्यानगरं प्रति बससेवा आरभ्यते। एचआरटीसी- समूहे सम्मिलितानि नूतनानि बीएस-६ श्रृङ्खलाया: बसयानानि अयोध्यायाः कृते चालितानि भविष्यन्ति। शिमलातः अयोध्यापर्यन्तं ११२४ किलोमीटर दूरम् अस्ति। शिमलातः दिल्लीपर्यन्तं ३९२ किलोमीटर, दिल्लीतः अयोध्यापर्यन्तं ७३२ किलोमीटर यावत् यात्रा भवति। एचआरटीसी-प्रबन्धनस्य अनुसारं दिल्लीतः अयोध्यापर्यन्तं बसयानानि द्रुतमार्गद्वयेन गमिष्यन्ति। दिल्लीतः निगमबसयानानि यमुना, आगरा-लखनऊ द्रुतमार्गेण च अयोध्यानगरं गमिष्यन्ति। तत्र यानस्थगनस्थलं, यात्रिकाणां कृते सार्वजनिकसुविधाः, डीजलस्य पूरणं, खादनपानार्थं च भोजनालया: च चिह्निताः सन्ति।