राष्ट्रपतिः द्रौपदी मुर्मूः नवदिल्लां चतुर्नवतिः प्रख्यात कलाप्रवीणान् संगीतनाटकाकादमी पुरस्कारस्कारेण सम्मानितवती
राष्ट्रपतिः द्रौपदीमुर्मूः नवदिल्लां चतुर्नवतिः प्रख्यात कलाप्रवीणान् द्वाविंशत्यधिक द्विसहस्त्रतमवर्षस्य अथ त्रयोविंशत्यधिक द्विसहस्त्रतमवर्षस्य संगीतनाटकअकादमी पुरस्कारस्कारेण सम्मानितवती । पुरस्कारोऽयम् संगीत-नृत्य-नाटक-लोक एवं जनजातीय कला काष्ठपुत्तलिका तथा संबद्ध प्रेक्षागार कला क्षेत्रेषु प्रदात्तः। अकादमी पुरस्कारान् अतिरिच्य राष्ट्रपतिः मुर्मूः समारोहेऽस्मिन् सप्त प्रतिष्ठितान् कलाप्रवीणान् संगीत नाटक अकादमी अकादमिक रत्नेनापि सभाजितवती । संगीत नाटक अकादमिक रत्नः प्रतिष्ठित कलाकारान् कला क्षेत्रे तेषां असाधारण योगदानाय सर्वोच्चसम्मानः वर्तते। अकादमी पुरस्कारः द्विपंचाशतोत्तर एकोनविंशतम वर्षतः प्रदीयते। सम्मानोऽयं उत्कृष्टता- उपलब्धयोः उच्चतम मानकस्य प्रतीकः अस्ति। सममेव कलायां प्रवीणानां योगदानमपि प्रमाणयति । अकादमिक रत्न पुरस्कारे त्रिलक्षरूप्यकाणि अपि च अकादमिक पुरस्कारे एकलक्षरूप्यकाणि प्रदीयते।
राष्ट्रपतिः द्रौपदी मुर्मूः नवदिल्लां चतुर्नवतिः प्रख्यात कलाप्रवीणान् संगीतनाटकाकादमी पुरस्कारस्कारेण सम्मानितवती
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment