मुख्यमन्त्री सुखविन्दरसिंहसुखुः वनखण्ड्यां राष्ट्रीयस्तरीयाया: जन्तुशालाया: आधारशिलाम् अस्थापयत्
हिमसंस्कृतवार्ता- काङ्गड़ा।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः काङ्गड़ाजनपदस्य देहराविधानसभाक्षेत्रस्य वनखण्ड्यां ३५० कोटिरुप्यकै: निर्मीयमानाया: राष्ट्रीयस्तरीयाया: जन्तुशालाया: आधारशिलाम् अस्थापयत्। तत: देहरा मातु: बगलामुखी-देव्या: दर्शनं कृतवान्।
अस्मिन् अवसरे मुख्यमन्त्री उपस्थितं समागमं सम्बोधयन् उक्तवान् यत् पूर्वं कश्चन भवतः नास्ति इति उक्तिः आसीत् । परन्तु देहरा अद्यतः अस्माकं एव अस्ति। अधुना भवन्तः देहरायां विकासस्य गङ्गां प्रवहन्ती द्रक्ष्यन्ति। या अद्य मातु: बगलामुखी-देव्या: दिव्यप्रसादात् आरब्धा। मुख्यमंत्री उक्तवान् यत् देहरा, ज्वालामुखी, जसवां-प्रागपुरेषु च युगपत् विकासः भविष्यति। ५ वर्षेभ्यः परं हिमाचलप्रदेशः ग्राम-अर्थव्यवस्थायाः साहाय्येन स्वाबलंबी भविष्यति।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः भाजपायाः उपरि आक्रमणं कृत्वा अवदत् यत् केचन भ्रष्टशक्तयः अस्माकं सर्वकारं दुर्बलं कर्तुम् इच्छन्ति। नेताप्रतिपक्षस्य जयरामठाकुरस्य मनसि सत्ताया: क्षुधा वर्तते। अश्वव्यापारद्वारा सर्वकारस्य निर्माणं तेषां अभिप्रायः आसीत् । परन्तु तेषां योजनाः वयं पूर्णतां प्रति न नीतवन्त:। सः अवदत् यत् अहं साधारणकुटुम्बात् उत्थाय मुख्यमन्त्री अभवम् सामान्यजनानाम् कृते च कार्यं करोमि। अस्माकं सर्वकारः निराश्रयबालानां सहायकः अभवत् । मुख्यमंत्री उक्तवान् यत् वयं पञ्चवर्षाणि यावत् निर्वाचिताः स्मः परन्तु लोकसभानिर्वाचने लोभीजनानाम् कृते भवन्तः समुचितं उत्तरं दास्यन्ति।