मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- भाजपादलेन अतिक्रान्ता: संवैधानिकमर्यादा:, पञ्चवर्षपर्यन्तं जनसेवा करिष्यति अस्माकं सर्वकार:
हिमसंस्कृतवार्ता:- हमीरपुरम्।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, हमीरपुरबसस्थानकस्य शिलान्यासस्य अनन्तरं पक्काभरो इत्यत्र जनसभां सम्बोधयन् अवदत् यत्, हमीरपुरबसस्थानकस्य कार्यं प्रायः १५ वर्षाणि यावत् लम्बितम् अस्ति। अस्मिन् आधारेण सम्बद्धाः सर्वाः प्रक्रियाः प्राथमिकतारूपेण सम्पन्नाः, अस्य निर्माणकार्यं ६५ कोटिरूप्यकैः सार्धैकवर्षे सम्पन्नं भविष्यति। मुख्यमन्त्री उक्तवान् यत् सः मण्डलस्य विधायकैः सह विकासात्मकपरियोजनासु कार्यं कुर्वन् अस्ति। एतेषु केचन जनाः सहसा सर्वकारस्य विरुद्धं गमिष्यन्ति इति सः कदापि न कल्पितवान् आसीत्। एते जनाः न केवलं सर्वकारेण सह वा दलेन सह वा द्रोहं कृतवन्तः अपितु स्वविधानसभाक्षेत्रस्य जनै: सहापि द्रोहं कृतवन्तः। विधानसभायाः बजटसत्रे विपक्षस्य मनोवृत्तेः दृढतया आलोचनां कुर्वन् मुख्यमन्त्री अवदत् यत् भाजपानेतारः आय-व्ययकस्य अनुमोदनम् न इच्छन्ति, तदर्थं ते अनेकान् अलोकतान्त्रिकान् विधीन् स्वीकुर्वन्ति। सः अवदत् यत् राज्यस्य जनाः ५ वर्षाणि यावत् सर्वकारं निर्वाचितवन्तः, तेषां सर्वकारः सम्पूर्णं ५ वर्षाणि जनानां सेवां करिष्यति।
मुख्यमन्त्री उक्तवान् यत् विकटे आर्थिकस्थितौ अपि राज्यसर्वकारेण १४ मासस्य कार्यकाले अनेके जनसौहृदनिर्णयाः कृताः, येन राज्यसर्वकारः सामान्यजनसर्वकारः इति सिद्ध्यति। राज्यसर्वकारः भ्रष्टाचारस्य प्रति शून्यसहिष्णुतां स्वीकृत्य कार्यं कुर्वन् अस्ति। भ्रष्टाचारस्य निवारणं कृत्वा सर्वकारेण राजस्वं प्रायः २० प्रतिशतं वर्धितम् अस्ति। सः अवदत् यत् तीव्रवित्तीयबाधाः अस्ति चेदपि राज्यसर्वकारेण १५ मासाभ्यन्तरे पञ्च प्रतिज्ञा: पूर्णाः कृताः। इन्दिरागांधी- प्रियभगिनी- सुखसम्मान- निधियोजनाया: अन्तर्गतं अग्रिमवित्तीयवर्षात् सर्वाभ्य: पात्रमहिलाभ्य: १५०० रुप्यकाणि प्रतिमासं प्रदास्यते।