कोलकातायां चतुःशोत्तर पञ्चदशसहस्र कोटितोप्यधिक- रुप्यकाणां सम्पर्कात्मक-विभिन्न परियोजनानां आधारशिलाम् उद्घाटनम् कृतं प्रधानमन्त्रिणा
हिमसंस्कृतवार्ताः- नरेश मलोटिया। प्रधानमन्त्रिणा नरेन्द्रमोदिना कोलकातायां चतुःशोत्तर पञ्चदशसहस्र कोटितोप्यधिक- रुप्यकाणां सम्पर्कात्मक-विभिन्न परियोजनानां आधारशिलाम् उद्घाटनं च अकारि। कार्यक्रमस्यास्य मुख्याकर्षणं भारते नद्याः अधः गामिनीं प्रथम मेट्रो-सेवायाः श्री मोदिना कृत उद्घाटनमासीत्। तेन कोलकाता मेट्रो-इत्यस्य पूर्वीय-पश्चिमी वीथ्याः हावडा भूमिगत-एस्प्लानेड इति खण्डस्य अनावरणं विहितम्। श्री मोदिना सम्पर्कस्य अन्यासां विभिन्न-परियोजनानामपि लोकार्पणं कृतम्। एतासु परियोजनासु रूबी हॉल क्लीनिक इत्यारभ्य रामवाडी यावत् पूणे मेट्रो, एसएन जंक्शनतः त्रिपुनीथुरा यावत् कोच्ची मेट्रो प्रथम चरणस्य विस्तार परियोजना प्रथम चरणं, आगरा मेट्रो इत्यस्य ताजपूर्वीद्वारात् मनकोश्वर स्ट्रेच यावत्, दिल्ली-मेरठ आर-आर-टी-एस वीथ्याः दुहाई-मोदीनगरं उत्तर खण्डं च सम्मिलिताः सन्ति। प्रधानमन्त्रिणः एषा यात्रा भारते तीव्रगत्या सम्वर्धतीं मेट्रो सम्पर्क प्रतिविम्बयति। चतुर्दशोत्तर द्विसहस्रं यावत् अशेषे हि देशे सार्धद्विशतं किलोमीटर परिमितं यावदेव मेट्रो रेलयानानां प्रचालनमासीत्। सम्प्रति विंशत्यावत् विभिन्न नगरेषु नवशततोप्यधिक किलोमीटर परिमितं यावत् मेट्रोति रेलयानानां प्रचालनं क्रियते। द्वादश राज्याणां केन्द्रशासित प्रदेशाणां च दश-दिवसीय यात्रावधौ पञ्चमे दिने प्रधानमन्त्रिणः यात्रैषा द्वितीया वर्तते। प्रधानमन्त्रिणा नरेन्द्रमोदिना उत्तरचौबीस परगना मण्डलस्य बारासाते एकां महिलाजनसभाम् अपि सम्बोधिता। प्रधानमन्त्रिणा उक्तं यत् कार्यक्रमिदम् अस्य प्रमाणम् अस्ति यत् भाजपेति दलं कथं नारीशक्तिं विकसित भारतस्य शक्तित्वेन समेधयति। श्रीमोदिना उक्तं यत् टीएमसी इति दलस्य शासने राज्यस्य महिलाः प्रताडिताः जाता। टीएमसी इति दलस्य सर्वकारः बंगालस्य जनानां आरोपिणां रक्षणे प्रयासं करोति ।
कोलकातायां चतुःशोत्तर पञ्चदशसहस्र कोटितोप्यधिक- रुप्यकाणां सम्पर्कात्मक-विभिन्न परियोजनानां आधारशिलाम् उद्घाटनम् कृतं प्रधानमन्त्रिणा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment