प्रधानमंत्री नरेन्द्रमोदी हिमाचलाय उपहारद्वयं दत्तवान् ; ३८२ मेगावाट- सुन्नी जलबन्ध जलविद्युत्- परियोजनाया: १५ मेगावाट- नंगल-प्लवमान (फ्लोटिंग) सौर- विद्युत्- परियोजनाया: शिलान्यास: कृत:
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
प्रधानमन्त्री नरेन्द्रमोदी हिमाचलस्य कृते उपहारद्वयं दत्तवान्। एते परियोजने ऊर्जाक्षेत्रे भविष्ये बृहत् परिवर्तनरूपेण दृश्यते। प्रधानमन्त्रिणा तेलङ्गानातः द्वयोः परियोजनयोः आभासीयमाध्यमेन आधारशिला स्थापिता अस्ति। एतयो: परियोजनयो: निर्माणं सतलुज- जलविद्युत्- निगमसीमित- (एसजेवीएन) द्वारा सम्पन्नं भविष्यति। प्रधानमन्त्री नरेन्द्रमोदिना राज्ये ३८२ मेगावाट् सुन्नीबान्धजलविद्युत्परियोजनायाः १५ मेगावाटस्य नङ्गलप्लवमानसौरविद्युत्परियोजनायाः शिलान्यासः कृतः। एतदतिरिक्तं असमप्रदेशे एसजेवीएन संस्थायाः ७० मेगावाट्-सौर-शक्ति-परियोजनायाः शिलान्यासः अपि अभवत्। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे तेलङ्गानाप्रदेशस्य आदिलाबादनगरे एकस्मिन् कार्यक्रमे सतलुज- जलविद्युत्- निगमसीमितस्य चतुर्णां विद्युत्केन्द्राणां वस्तुतः उद्घाटनं कृतवान्। एतेषु उत्तराखण्डे ६० मेगावाट नैटवाड़ मोरीजलविद्युत्स्थानकं, उत्तरप्रदेशे ७५ मेगावाट परासनसौरविद्युत्स्थानकं, ७५ मेगावाटगुरहासौरविद्युत्स्थानकं, ५० मेगावाट- गुजराई- सौरविद्युत्स्थानकं च राष्ट्राय समर्पिम्। प्रधानमन्त्रिणा सतलुज-जलविद्युत्-निगमसीमितस्य हिमाचलप्रदेशे ३८२ मेगावाट- सुन्नी जलबन्ध जलविद्युत्- परियोजनाया:, १५ मेगावाट- नंगल-प्लवमान-सौर-विद्युत्- परियोजनाया:, असमप्रदेशे ७० मेगावाट- असम-सौर-विद्युत्- परियोजनाया: च आभासीयमाध्यमेन शिलान्यास: कृत:।
शिमलायां सतलुज- जलविद्युत्- निगमसीमितस्य कार्यालये सलिलशमशेरी, कार्यकारी निदेशक:, चन्द्रशेखरयादव:, कार्यकारी निदेशक: एवं वरिष्ठाधिकारिण: अपि आभासीयमाध्यमेन कार्यक्रमे सम्मिलिता: अभवन्।