शाहबाजशरीफः पाकिस्तानस्य अग्रिमः प्रधानमन्त्री भविष्यति
पाकिस्तानमुस्लिमलीग-नवाजपक्षस्य नेता शाहबाजशरीफः पाकिस्तानस्य २४तमः प्रधानमन्त्री भविष्यति। राष्ट्रियसभायां शाहबाजशरीफमहोदयेन २०१ मतं प्राप्तम्, इमरानखानस्य पाकिस्तानतहरीक-ए-इन्साफ-पक्षस्य निर्वाचकः उमर-अयूबखानः केवलं ९२ मतं संग्रहीतुं शक्नोति स्म महत् कोलाहलस्य मध्ये एतत् मतदानं जातम् । पाकिस्तान तहरीक-ए-इन्साफ-पक्षस्य समर्थनं कुर्वन्तः सांसदाः इमरानखानस्य मुक्तिं आग्रहं कुर्वन्तः उद्घोषम् उत्थापितवन्तः। सः आरोपितवान् यत् शाहबाजशरीफः सत्तां प्राप्तुं निर्वाचने भ्रष्टाचारम् अकरोत्।
शाहबाजशरीफः पाकिस्तानस्य अग्रिमः प्रधानमन्त्री भविष्यति
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment