अल्पसंख्यककार्यमन्त्री स्मृति ईरानी वर्ष २०२४ कृते हजमार्गदर्शिकाः अधिसूचितवती
अल्पसंख्यककार्याणां मन्त्री स्मृति ईरानी इत्यनया नवदिल्लीनगरे हजमार्गदर्शिकाः प्रकाशिताः, हजसुविधा मोबाईल एप् च प्रारम्भः कृतः। अस्मिन् अवसरे सा अवदत् यत् राष्ट्रियलोकतान्त्रिकगठबन्धनस्य – एनडीए-सर्वकारस्य मन्त्रालयैः व्यवस्थितरूपेण सुलभतया च हजयात्रायाः कृते बहवः प्रयासाः कृताः। सा अवदत् यत् गतवर्षे मेहरम विना चतुर्सहस्राधिकाः महिलाः हजार्थं गताः। अस्मिन् वर्षे च पञ्चसहस्राधिकाः महिलाः मेहरम विना हजार्थं आवेदनं कृतवत्यः।
इरानीमहोदया उक्तवती यत् केन्द्रसर्वकारः हजयात्रायाः अनुभवस्य उन्नयनार्थं यथाशक्ति प्रयतते। सा अवदत् यत् हजसुविधा मोबाईल एप् प्राधिकारिभिः सह सम्पर्कं स्थापयितुं सुविधां करिष्यति तथा च समीपस्थस्वास्थ्यकेन्द्राणां स्थानं ज्ञातुं अपि सहायकं भविष्यति।
अल्पसंख्यककार्यमन्त्री स्मृति ईरानी वर्ष २०२४ कृते हजमार्गदर्शिकाः अधिसूचितवती
![](https://himsanskritam.com/wp-content/uploads/2024/03/NPIC-202433204958.jpeg)
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment