ऊना-हरिद्वार रेलयानं मार्चमासस्य ४ दिनाङ्कतः प्रचलिष्यति, केन्द्रीयमन्त्री अनुरागठाकुरः ऊनारेलस्थानकात् हरितध्वजं प्रदर्श्य प्रेषयिष्यति
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
अधुना ऊना-हरिद्वारस्य रेलयानं मार्चमासस्य ४ दिनाङ्के प्रचलिष्यति। रेलविभागेन नूतना अधिसूचना प्रसारिता अस्ति। ऊनारेलस्थानकात् हरिद्वारपर्यन्तं ०४५०२ क्रमांकं रेलयानं ४ मार्च सोमवासरे आरभ्यत इति निर्णयः कृतः अस्ति। केन्द्रीयमन्त्री अनुरागठाकुरः ४ मार्च दिनाङ्के अपराह्णे १.५० वादने ऊनारेलस्थानके हरिद्वारं प्रति एतद् रेलयानं हरितध्वजं प्रदर्श्य प्रेषयिष्यति। एतद् रेलयानं रात्रौ ९ वादने हरिद्वारं प्राप्स्यति। ध्यातव्यं वर्तते यत् रेलविभागेन ऊना-सहारनपुरम् रेलयानस्य विस्तारः हरिद्वारपर्यन्तं कृतः अस्ति। पूर्वम् ऊनातः सहारनपुरं प्रति रेलयानं प्रचलति स्म, अधुना हरिद्वारपर्यन्तं विस्तारितम् अस्ति। ऊनातः रेलयानं १.५० वादने प्रचलति। ७.२० वादने सहारनपुरं प्राप्स्यति। ८.०४ वादने रेलयानं रूड़की-रेलस्थानकं प्राप्स्यति, ९ वादने च रेलयानं हरिद्वारं प्राप्स्यति। तथैव हरिद्वाररेलस्थानकात् ५ मार्च दिनाङ्के प्रातः ४:३० वादने ०४५०१ क्रमांकं रेलयानं प्रस्थास्यति।
रेलयानं ५.२५ वादने रूड़कीस्थानकं प्राप्स्यति तथा च रूड़कीस्थानके पञ्चनिमेषपर्यन्तं स्थगितम् भविष्यति तथा च रेलयानं ततः ५.५० वादने प्रस्थाय ६.२० वादने सहारनपुररेलस्थानकं प्राप्स्यति। यत्र रेलयानस्य विरामः १० निमेषपर्यन्तं भविष्यति। सहारनपुरतः ६.३० वादने प्रस्थास्यति, १२.३० वादने ऊना रेलस्थानकं प्राप्स्यति। रेलपरामर्शसमितेः सदस्यः सुमितशर्मा अवदत् यत् इदानीं ऊना- हरिद्वाररेलयानं मार्चमासस्य चतुर्थे दिने प्रचलति, पूर्वं ऊनानगरात् मार्चमासस्य प्रथमे दिने एतत् रेलयानं चालयितुं निर्णयः कृतः आसीत्। केन्द्रीयमन्त्री अनुरागठाकुरः ४ मार्च दिनाङ्के ऊनारेलस्थानके ऊना-हरिद्वार-रेलयानस्य हरितध्वजं प्रदर्श्य शुभारम्भं करिष्यति। अस्याः रेलसेवाया: क्षेत्रस्य जनाः महत्लाभं प्राप्स्यन्ति इति सः अवदत्। रेलवे अधीक्षकः रोहदाशसिंहः एतस्य समाचारस्य पुष्टिं कृतवान्।