Shivratri Festival Mandi – मण्डी-शिवरात्रिमहोत्सवे भागं स्वीकर्तुं मुख्याराध्यबृहद्देवः कमरुनाग स्वमन्दिरात् प्रस्थित:, सप्तदिनानि यावत् भविष्यति पदयात्रा
हिमसंस्कृतवार्ता:- मण्डी।
अन्ताराष्ट्रीयशिवरात्रिमेला मण्डी इत्यस्य मुख्याराध्य बृहद्देवः कमरुनागः गुरुवासरे उल्लासेन भक्तै:सह मण्डीनगरं प्रति प्रस्थितवान् अस्ति। बृहद्देव: कमरुनागः सप्ताहव्यापिन्या: पदयात्रायाः अनन्तरं ७ मार्च दिनाङ्के मण्डीनगरं प्राप्स्यति। यत्र उपायुक्त: मण्डी एवं अन्ताराष्ट्यीयशिवरात्रिमेलापकस्य अध्यक्ष: जिलाप्रशासनपक्षत: स्वागतं करिष्यति। सप्ताहदीर्घयात्रायां कामरुनाग: २०-२२ आतिथ्यकार्यक्रमेषु भागं ग्रहीष्यति इति कथ्यते।
गुरुवासरे प्रातःकाले कमरु उपत्यकातः प्रस्थितः देव कामरुनागः ३० देवलुभि: गुरुभि: कौतवालै: सह मण्डीनगरं प्रस्थितः अस्ति। बृहद्देदेवस्य कामरुनागस्य मार्गे भक्तैः भव्यं स्वागतं क्रियते।