भाजपायाः प्रयासाः असफलाः अभवन्, अधुना हिमाचले अस्माकं सर्वकाराय कोऽपि संकट: नास्ति- जयराम रमेशः
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशे भारतीयजनतापक्षस्य स्वसर्वकारस्य अस्थिरीकरणस्य प्रयासः असफलः अभवत्, तत्र काङ्ग्रेससर्वकाराय कोऽपि संकट: नास्ति इति काङ्ग्रेसेन उक्तम्। काङ्ग्रेससञ्चारविभागप्रभारी जयरामरमेशः प्रधानमन्त्री नरेन्द्रमोदिनंश: गृहमन्त्रिण: अमितशाहस्य च नामाङ्कनं विना उक्तवान् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिन: तस्य ‘चाणक्य’शाहस्य च सर्वकारस्य पतनस्य रणनीतिः असफलः अभवत्। सः अवदत् यत् हिमाचले सर्वकारस्य उद्धाराय काङ्ग्रेसनेतृत्वस्य हस्तक्षेपः सफलः अभवत्, भाजपानेतृत्वस्य स्वप्नाः च भग्नाः अभवन्।
सः अवदत् यत्, “हिमाचलस्य विषये माध्यमेषु विविधाः विषयाः प्रचलन्ति, परन्तु वयं एकं वस्तु अतीव स्पष्टं कर्तुम् इच्छामः यत् राज्ये प्रधानमन्त्रिणः तथाकथितस्य चाणक्यस्य च प्रयत्नाः सर्वथा विफलाः अभवन्। “काङ्ग्रेसनेतृत्वस्य हस्तक्षेपस्य अनन्तरं अस्माकं पर्यवेक्षकाणां शीघ्रतायाः अनन्तरं तत्र स्थितिः पूर्णतया काङ्ग्रेसस्य नियन्त्रणे अस्ति।”
जयराम रमेशः अवदत् यत्, “अन्यराज्यानां इव हिमाचले भाजपा अपि पूर्णबहुमतेन जनानां निर्वाचितं काङ्ग्रेससर्वकारं अस्थिरं कर्तुं धनशक्तिः, सत्ताशक्तिः, बाहुशक्तिः च इति क्रीडां आरब्धवती आसीत्, परन्तु ते असफलाः अभवन् यतोहि हिमाचलस्य जनानां आशीर्वाद: काङ्ग्रेसेन सह वर्तते। अस्याः घटनायाः अनन्तरं अस्माकं संकल्पः अधिकः अभवत्। वयं हिमाचलस्य जनानां सेवां करिष्यामः” इति।