हिमाचले राजनैतिकनाट्यम् – यदि २५ सदस्यीयं दलम् ४३ जनानां आह्वानं करोति तर्हि आशय: स्पष्ट: हिमाचलस्य राजनैतिकसंकटस्य विषये उक्तवती प्रियङ्का गान्धी
हिमसंस्कृतवार्ता:- शिमला।
काङ्ग्रेसेन उक्तं यत् भारतीयजनतादलं धनशक्ते: सत्ताया: च दुरुपयोगं कृत्वा बहुमतसर्वकारस्य पतनस्य अनैतिकं असंवैधानिकं च प्रयासं कृत्वा हिमाचलप्रदेशस्य जनानाम् अधिकारान् मर्दयितुं प्रयतते। काङ्ग्रेसमहासचिवः प्रियङ्का गान्धी सामाजिक- माध्यमे एकस्मिनपटले उल्लिखितवती यत्, “प्रजातन्त्रे सामान्यजनानां स्वरुच्या: सर्वकारस्य चयनस्य अधिकारः अस्ति। हिमाचलस्य जनाः एतस्य अधिकारस्य उपयोगेन स्पष्टबहुमतेन काङ्ग्रेससर्वकारस्य निर्माणं कृतवन्तः। परन्तु भाजपा केन्द्रस्य धनशक्तिः, संस्था-शक्तिः, केन्द्रस्य सत्ताया: च दुरुपयोगं कृत्वा हिमाचल-जनानाम् एतस्य अधिकारस्य मर्दनं कर्तुम् इच्छति। एतदर्थं भाजपा यथा सर्वकारीयसुरक्षायाः, यन्त्राणां च उपयोगं कुर्वन् अस्ति, तत् देशस्य इतिहासे अपूर्वम् अस्ति” इति ।
सा अवदत् यत्, “यदि २५ विधायकै: युक्तं दलम् ४३ विधायकानां बहुमताय आह्वानम् ददाति तर्हि तस्य स्पष्टतया अर्थः अस्ति यत् दलं प्रतिनिधिनां अश्वव्यापारे आश्रितः अस्ति। तेषां एषा मनोवृत्तिः अनैतिकी असंवैधानिकी च अस्ति। हिमाचलस्य देशस्य च जनाः सर्वं पश्यन्ति। प्राकृतिक आपदायां भाजपा राज्यस्य जनै: सह न स्थितवती किन्तु अधुना राज्यं राजनैतिकविपदां प्रति पातयितुं इच्छति” इति।
इदानीं काङ्ग्रेससञ्चारविभागप्रभारी जयरामरमेशः अत्रत्याः दलस्य मुख्यालये पत्रकारसम्मेलने अवदत् यत्, “प्रधानमन्त्रिणं नरेन्द्रमोदिनम् अस्वीकृत्य हिमाचलजनाः काङ्ग्रेसाय स्पष्टं बहुमतं दत्तवन्तः आसन्। यदा वयं अस्माकं प्रतिज्ञां कार्यान्वितुं व्यस्ताः आसन्, तदा मोदीवर्य: स्वस्य प्रतिज्ञां पूर्णां कर्तुं व्यस्तः आसीत्। मोदीवर्यस्य प्रतिज्ञा अस्ति- काङ्ग्रेससर्वकारा: पतन्तु किन्तु जनाः काङ्ग्रेसाय यत् जनादेशं दत्तवन्तः तस्य विश्वासघातं वयं न अनुमन्यन्ते। मोदी-जेपी-नड्डावर्ययोः प्रचारं कृत्वा अपि हिमाचलप्रदेशस्य जनाः राज्ये पूर्णबहुमतेन २०२२ तमस्य वर्षस्य दिसम्बरमासे काङ्ग्रेससर्वकारस्य निर्माणं कृतवन्तः। अस्माकं सर्वकारस्य निर्माणस्य किञ्चित्कालानन्तरं राज्ये भयंकरी आपदा अभवत्। लक्षशः जनाः विस्थापिताः, प्राणहानिः सम्पत्तिः च अभवत् किन्तु केन्द्रसर्वकारः मोदीमहोदयः च किमपि साहाय्यं न अददत्। काङ्ग्रेसपक्षस्य, हिमाचलस्य मुख्यमन्त्रिणः च आग्रहाणाम् अभावे अपि एतत् राष्ट्रिय-आपदं न घोषितम्। “एतत् प्रथमवारं यत् तीव्रप्राकृतिकविपदायाः अनन्तरम् अपि राज्येन केन्द्रसर्वकारेण किमपि साहाय्यं वा आश्रयं वा न प्राप्तम्।”
सः अवदत् यत्, “अस्माकं कृते हिमाचले जनादेशस्य आधारेण राज्यसभासनं निर्धारितं किन्तु दुःखदं यत् भाजपा-अभ्यर्थीनां चयनं लॉटरी- व्यवस्थायाः आधारेण कृतम्। “अस्माकं एकं दलं सम्प्रति शिमलानगरे अस्ति यत् क्रुद्धैः काङ्ग्रेसविधायकैः सह वार्तालापं कृत्वा प्रतिवेदनं प्रस्तौति, येन वयं अस्माकं अग्रे निर्णयं कर्तुं शक्नुमः।”