HP Budget Session : विक्रमादित्यसिंह: मम अनुजः, त्यागपत्रं स्वीकर्तुं किमपि औचित्यं नास्ति – मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशे काङ्ग्रेससर्वकारस्य बहुमतं भवत्यपि राज्यसभाया: आसनं भाजपापक्षे गमनेन राज्ये राजनैतिकक्षोभं तीव्रं जातम्। लोकनिर्माणमन्त्री विक्रमादित्यसिंहः मन्त्रिमण्डलात् त्यागपत्रं दत्तवान्। १५ भाजपा विधायकाः सदनेन निलम्बिताः।
विक्रमादित्यसिंहः सर्वकारीययानं त्यक्तवान्
मन्त्रिमण्डलात् त्यागपत्रं दत्त्वा विक्रमादित्यसिंहः सर्वकारीयवाहनं त्यक्तवान् अस्ति। सः विधानसभात: निजयानेन स्वनिवासं प्रति प्रस्थितवान्।
त्याग-पत्रस्य पश्चात् भाजपा-दले गमनस्य अनुमानानाम् विषये काङ्ग्रेस-विधायकः विक्रमादित्यसिंहः अवदत् यत् अद्यापि तत्सदृशं किमपि नास्ति। यत्किमपि अहं वदामि तत् सर्वदा तथ्यप्रमाणमाश्रित्य वदामि। तत्सदृशं किमपि नास्ति, सर्वं लोकवाद: एव। अहं राजनैतिकं व्यभिचारं विना यत्किमपि वदामि सत्यं वदामि। यत्किमपि वक्तव्यं तत् स्पष्टतया वक्ष्यामि।
विक्रमादित्यसिंहस्य रोषं निवारयिष्याम: – मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् लोकनिर्माणमन्त्री विक्रमादित्यसिंहस्य त्यागपत्रं स्वीकर्तुं किमपि औचित्यं नास्ति। सः अवदत् यत् विक्रमादित्यसिंहः तस्य अनुजः अस्ति। तस्य रोष: दूरीकृतः भविष्यति। मुख्यमन्त्री गुरुवासरे मन्त्रिमण्डलस्य समागममपि आहूतवान्। पत्रकारैः सह वार्तालापं कुर्वन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः विक्रमादित्यस्य त्यागपत्रसम्बद्धानां प्रश्नानाम् उत्तरं दत्तवान्। सः विक्रमादित्यसिंहेन सह वार्तालापं कृतवान् इति अवदत् । एतादृशं किमपि नास्ति। सः मम अनुजः अस्ति। अवश्यं यदि कश्चन रोष: भवति तर्हि सः त्यागपत्रं ददाति। तस्य त्यागपत्रस्य स्वीकारस्य न्याय्यता नास्ति । अद्य वयं तेन सह आयव्ययके सत्रे भाषितवन्तः परन्तु तदन्तरे विधानसभाध्यक्ष: सदनं आगतः। तस्य यः कोऽपि आक्रोशः अस्ति सः अपसारितः भविष्यति।
त्याग-पत्रस्य अस्वीकरणे किमुक्तवान् विक्रमादित्यसिंहः
विक्रमादित्यसिंह: मन्त्रिपदात् त्यागपत्रं दत्तवान् परन्तु यदा तस्य त्यागपत्रं न स्वीकृतम् तदा काङ्ग्रेसनेता विक्रमादित्यसिंहः अवदत् यत् एतद् मुख्यमन्त्रिणः विशेषाधिकारः वर्तते। अहं निपीडनं न गृह्णामि किन्तु निपीडनं ददामि। मुख्यमन्त्रिण: परिवर्तनं कर्तव्यं वा न वा इति प्रश्नस्य उत्तरे सः अवदत् यत् एतत् तस्य अधिकारक्षेत्रं नास्ति, दलस्य शीर्षनेतृत्वस्य निर्णयः भविष्यति।