हिमाचलस्य उच्चोच्चक्षेत्रेषु हिमपात: षड्दिनानि यावत् वातावरणं प्रतिकूलमेव तिष्ठति
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशस्य उच्चोच्चक्षेत्राणि हिमेन आच्छादितानि सन्ति। राज्यस्य किन्नौरं, कुल्लू:, लाहौल- स्पीति:, चम्बा मण्डलेषु उच्चपर्वतक्षेत्रेषु हिमपातः निरन्तरं वर्तते। राजधान्यां शिमलानगरे अपि प्रातःकालात् मेघा: आसन्। तापमानस्य न्यूनतायाः कारणेन शीतलता वर्धिता अस्ति। मण्डलस्य कुल्लू-लाहौलस्य च अनेकेषु क्षेत्रेषु पुनः वातावरणे परिवर्तनं जातम् इति कारणतः जीवनं अद्यापि सामान्यं न अभवत्। सोमवासरे रात्रौ एव मण्डलस्य कुल्लू- लाहौल- उपत्यकायाः उच्चतरप्रदेशेषु हिमपातः आरब्धः। रोहताङ्ग-दर्रायां २५, रोहताङ्ग-कन्दराया दक्षिणद्वारे १२, उत्तरद्वारे ८, सिस्सौ, केलाङ्गे च ५- सेंटीमीटरमितं हिमपात: अभवत्।
रामपुर उपमण्डलस्य १२/२० तथा १५/२० क्षेत्रस्य उच्चशिखरस्य अतिरिक्तं सुङ्गरी, काशापाट, मुरालडण्डा सहितं इत्यादिषु अन्येषु उच्चक्षेत्रेषु सामान्यं हिमपातः अभवत् परन्तु किन्नौरमण्डले अपराह्णे वातावरणं स्वच्छम् अभवत्, रामपुरे तु सघनमेघयुक्तः एव अभवत्। क्षीणवायुस्थितेः अनन्तरं पुनः सम्पूर्णम् क्षेत्रं शीततरङ्गस्य ग्रहणे भवति। कुल्लू, लाहौलं, किन्नौरम् इत्येतेषां उपरितनक्षेत्रेषु हिमपातस्य कारणेन जनानां दुःखानि अधिकं वर्धितानि। मण्डलप्रशासनेन पर्यटकानाम् सामान्यजनानाञ्च वातावरणं मनसि कृत्वा यात्रां कर्तुं परामर्श: दत्तः अस्ति। एतदतिरिक्तं लाहौल- उपत्यकायां हिमस्खलनस्य सम्भावना अपि अस्ति।
त्रिदिनानि यावत् नारङ्गसचेतना
ऋतुविज्ञानकेन्द्रं शिमलाद्वारा राज्यस्य अनेकेषु भागेषु वर्षा, हिमपातः च भविष्यति इति पूर्वानुमानं कृतम् अस्ति। २८ फरवरी दिनाङ्के अपि केषुचित् उच्चपर्वतस्थानेषु प्रतिकूलवातावरणस्य सम्भावना अस्ति। राज्ये २९ फरवरीतः नूतनः पाश्चात्यः उपद्रवः सक्रियः भवितुम् अर्हति। अस्य प्रभावस्य कारणात् राज्यस्य अनेकक्षेत्रेषु मार्चमासस्य प्रथमदिनात् ३ मार्चपर्यन्तं प्रचण्डवृष्टिः, हिमपातः, वज्रपातः, विद्युत्प्रवाहः च इति नारङ्गवर्णीयसचेतना प्रसारिता अस्ति। विभागस्य अनुसारं मार्चमासस्य प्रथमदिनाङ्के चम्बा, कांगड़ा, कुल्लू च मण्डलेषु विभिन्नेषु स्थानेषु प्रचण्डवृष्टिः, हिमपातस्य च सम्भावना वर्तते। मार्चमासस्य द्वितीये दिने चम्बा, कांगड़ा, कुल्लु, किन्नौर, लाहौल-स्पीति इत्यत्र अतीव प्रचण्डवृष्टिः, हिमपातस्य च सम्भावना वर्तते। केषुचित् उच्चपर्वतस्थानेषु मार्चमासस्य ४ दिनाङ्के वातावरणं प्रतिकूलमेव तिष्ठति।