रेलवे इत्यस्य एकचत्वारिंशत्-सहस्रकोटितोप्यधिकानां रुप्यकाणाम् अवसंरचना-परियोजनानां शुभारम्भः
प्रधानमन्त्रिणा नरेन्द्रमोदिना दृश्य-श्रव्य परान्तर्जालीय माध्यमेन रेलवे इत्यस्य एकचत्वारिंशत्-सहस्रकोटितोप्यधिकानां रुप्यकाणाम् अवसंरचना-परियोजनानां शुभारम्भः विहितः। तेन रेल-विभागस्य द्विसहस्रतोप्यधिकानां परियोजनानाम् आधारशिला स्थपिता राष्ट्राय च काश्चन योजनाः समर्पिताः। कार्यक्रमावधौ श्रीमादिना “अमृत भारत-स्थानक- योजनान्तर्गतं” त्रिपञ्चाशदुत्तर-पञ्चशतं यावत् रेल-स्थानकानां पुनर्विकास-कार्यक्रमस्य आधारशिलापि संस्थापिता। अष्टाविंशतिः राज्येषु अष्टकेन्द्रशासितप्रदेशेषु स्थितानां एतेषां रेलस्थानकानां पुनर्विकास-कार्यम् ऊनविंशतिः सहस्रकोटितोप्यधिकानां रुप्यकाणां व्ययेन क्रियते। प्रधानमन्त्रिणा उत्तरप्रदेशे गोमतीनगर-रेलस्थानकस्यापि उद्घाटनं विहितम्। श्रीमोदिना सार्धंक-सहस्र यावत् उन्नतमार्गाणां भूमिगतमार्गाणाञ्चापि शुभारम्भः विहितः।
अस्मिन् अवसरे प्रवदत्ता रेलमन्त्रिणा अश्विनी वैष्णवेण उक्तं यत् विगतेषु दशवर्षेषु रेल- विभागेन परिवर्तनेन सममेव विकासस्य कालोऽपि दृष्टः । तेन ख्यापितं यत् एकत्रिंशत्-सहस्र किलोमीटरपरिमितं यावत् रेल मार्गाणां प्रसारणमभवत् अपि च चत्वारिंशत् सहस्र-किलोमीटर- परिमितं यावत् रेलमार्गाणां विद्युतीय-करणं एतेषु वर्षेषु जातम्। तेनोक्तं यत् अद्य प्रतिदिनं प्रायः पञ्चदश किलोमीटर रेलमार्गाणां प्रसारणं क्रियते तत्रैव चतुर्दशोत्तर द्विसहस्र तमे वर्षे केवलं चत्वारि किलोमीटर परिमितं यावदेव रेलमार्गाणां प्रसारणम् आसीत्। तेन इदमपि ख्यापितं यत् वर्तमान सर्वकारस्य कार्यावधौ जम्मू-कश्मीर पूर्वोत्तर राज्येषु च रेल-क्षेत्रे अभूतपूर्व कार्याणां सम्पादनं जातम्।
रेलवे इत्यस्य एकचत्वारिंशत्-सहस्रकोटितोप्यधिकानां रुप्यकाणाम् अवसंरचना-परियोजनानां शुभारम्भः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment