राज्यसभानिर्वाचनम्: काँग्रेसस्य सचेतकस्य विरुद्धं निर्वाचनायोगं प्रति गतं भाजपादलम्
हिमसंस्कृतवार्ता:- शिमला।
राज्यसभानिर्वाचने मतदानात् केवलम् एकदिनपूर्वं भारतीयजनतादलेन काङ्ग्रेसेन निर्गतस्य सचेतकस्य विषये निर्वाचन-आयोगाय लिखितोपालम्भ: दत्त:। एष: उपालम्भ: भाजपादलस्य प्रदेशाध्यक्ष: डॉ. राजीवबिन्दल:, मुख्यप्रवक्ता रणधीरशर्मा, पार्टी प्रत्याशी च हर्षमहाजनद्वारा पृथक्-पृथक् रूपेण प्रदत्तम्। भाजपा कथयति यत् राज्यसभानिर्वाचने मुक्तमतपत्रव्यवस्था अस्ति, अभ्यर्थिनः नाम्ना सचेतना (व्हिप) निस्सारणं निर्वाचनं प्रभावितं कर्तुं प्रयत्नः एव।
उपालम्भेन सह काङ्ग्रेसविधानपक्षस्य मुख्यसचेतकेन हर्षवर्धनचौहानेन निर्गतस्य त्रिपङ्क्तिसचेतकस्य प्रतिलिपिः अपि संलग्ना अस्ति। एषः सचेतक: काङ्ग्रेसपक्षेण त्रिदिवसपूर्वं निर्गतम्, यस्मिन् न केवलं विधायकाः २७ फरवरी दिनाङ्के मतदानार्थं उपलब्धाः भवेयुः इति आहूताः, अपितु काङ्ग्रेसपक्षस्य अधिकृतस्य प्रत्याशी अभिषेकमनुसिंघवी इत्यस्य नाम अपि लिखितम् आसीत्। राज्यसभानिर्वाचने जगतसिंहनेगी, संजय: अवस्थी च अधिकृत अभिकर्तारूपेण नामाङ्कितौ, भाजपादलेन सतपाल सती, राकेशजम्वालः च नामाङ्कितौ।
निर्वाचने काङ्ग्रेस-भाजपायाः प्रत्येकं विधायकं स्वस्य अधिकृत-अभिकर्तु: प्रकटीकरणं कृत्वा मतदानं कर्तव्यं भविष्यति। यदि मतदानात् पूर्वं न दर्शितं तर्हि अधिकृतः अभिकर्ता तत् अमान्यं कर्तुं शक्नोति। परन्तु यदि कस्यचित् दलस्य कोऽपि विधायकः स्वस्य क्रॉस वोट प्रकटयति तर्हि सः अमान्यः न भविष्यति। न च अस्मिन् निर्वाचने प्रदत्तमतानाम् आधारेण विधायकस्य अयोग्यता न भवितुमर्हति।