दुग्धविकासाय नाबार्डतः २५० कोटिरूप्यकाणां ऋणं ग्रहीष्यति हिमाचलसर्वकार:
हिमसंस्कृतवार्ता- शिमला।
पशुपालकानां आयं वर्धयितुं दुग्धविकासयोजनायाः अन्तर्गतं दुग्धविकासाय नाबार्डसंस्था हिमाचलसर्वकाराय ऋणं दास्यति। नाबार्ड् इत्यनेन सर्वकारस्य प्रस्तावः अनुमोदितः अस्ति, आगामिसप्ताहे सर्वकारस्य नाबार्ड-इत्यस्य च मध्ये एतस्य विषये अभिसन्धि: क्रियते। चतुर्प्रतिशतव्याजेन नाबार्डतः प्रायः २५० कोटिरूप्यकाणां ऋणं ग्रहीतुं योजना अस्ति। एषा सूचना कृषिपशुपालनमन्त्री प्रो. चन्द्रकुमारः सोमवासरे दत्तवान्। सः अवदत् यत् दुग्धविकासाय जायका (Japan International Corporation Agency) इत्यस्मात् बजटं सर्वकारेण याचितं, यत् स्वीकृतं नाभवत्। दुग्धनिर्मातृणां आयं वर्धयितुं काङ्गड़ामण्डलस्य ढगवारे प्रतिदिनं १.५० लक्षसेटकरक्षमतया स्वचालितदुग्धप्रक्रियासंयंत्रं स्थापयितुं सर्वकारः गच्छति। निर्माणकार्यस्य निविदाव्ययः सर्वकारः स्वस्तरेन वहति।
सः अवदत् यत् राष्ट्रीयदुग्धविकासमण्डलेन परियोजनायाः परामर्शसेवाः प्रदत्ताः भविष्यन्ति। नाबार्ड् इत्यस्य ऋणेन संयंत्रस्य निर्माणं भविष्यति। ग्रामीणक्षेत्रेषु कृषकाणां दुग्धक्रयणतन्त्रम् अपि सुदृढं कर्तव्यम् अस्ति। ढगवार-संयंत्रस्य कृते प्रतिदिनं २.७४ लक्ष-लीटर-दुग्धस्य क्रयणं भविष्यति । जाइका-अन्तर्गतं दुग्धविकासाय देशस्य अनेकराज्येभ्यः बजटं उपलब्धं कृतम् अस्ति । परन्तु हिमाचलस्य प्रस्तावः स्वीकृतः नास्ति। तर्कः कृतः यत् जाइका-अन्तर्गतं हिमाचलस्य कृते पूर्वमेव अनुमोदितानां परियोजनानां कृते धनं दत्तम् अस्ति, अधुना नूतनाः परियोजनाः समाविष्टाः कर्तुं न शक्यन्ते। सः अवदत् यत् नाबार्ड् इत्यनेन दुग्धविकासाय ऋणं दातुं सहमतिः कृता अस्ति। चतुर्प्रतिशतव्याजेन प्रायः २५० कोटिरूप्यकाणां ऋणं ग्रहीतुं योजना अस्ति। अस्य विषये शीघ्रमेव नाबार्ड् इत्यनेन सह अभिसन्धि: भविष्यति। ढगवारस्वचालितदुग्धप्रक्रियासंयंत्रस्य निविदायाः व्ययः सर्वकारः तस्य कोषात् वहति इति मुख्यमन्त्री अनुमोदितवान्।
दुग्धविकासाय नाबार्डतः २५० कोटिरूप्यकाणां ऋणं ग्रहीष्यति हिमाचलसर्वकार:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग
ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001
संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Leave a comment
Leave a comment