हिमाचलस्य साक्षरता दरः ८८ प्रतिशताधिकः, शिक्षामन्त्री सर्वकारीयविद्यालयेभ्यः श्रेयः दत्तवान्
शिमला। हिमाचलप्रदेशस्य शिक्षामन्त्री रोहितठाकुरः रविवासरे अवदत् यत् स्वातन्त्र्यसमये राज्यस्य साक्षरतादरः प्रायः अष्टप्रतिशतम् आसीत्, अद्यत्वे ८८ प्रतिशतात् अधिकं यावत् वर्धितः अस्ति। रोहितठाकुरः अवदत् यत् शिक्षाक्षेत्रे अग्रणीराज्येषु भवितुं श्रेयः राज्यस्य सर्वकारीयविद्यालयैः निर्धारितस्य उच्चस्तरस्य मानकाय गच्छति। तेनोक्तं यत् मुख्यमन्त्रिणा सुखविंदरसिंहसुक्खुवर्येण किञ्च अस्माकं राज्यस्य प्रथममुख्यमन्त्रिणा डॉ. वाई. स. परमारवर्येणापि सर्वकारीयविद्यालयेभ्यः, महाविद्यालयेभ्यः, विश्वविद्यालयेभ्यः च शिक्षां प्राप्य उच्चपदवी प्राप्ता ।
सः अत्र ज़ी पंजाब हरियाणा-हिमाचलस्य सहकारेण क्रैक-अकादमी द्वारा राज्यस्य सर्वेषु ६८ निर्वाचनक्षेत्रेषु ‘मम नगरस्य १०० रत्नानि’ इति छात्रवृत्तिकार्यक्रमस्य आरम्भं कृतवान्। एषा अकादमी सिविलसेवा, एसएससी, रेलवे, बैंकिंग् इत्यादीनां प्रतियोगितापरीक्षाणां प्रशिक्षणं प्रददाति । अकादमी हिमाचलस्य प्रत्येकस्मिन् विधानसभाक्षेत्रात् १०० छात्राणां चयनं कृत्वा तेभ्यः छात्रवृत्तिम् दास्यति। यस्य कृते छात्रवृत्तिपरीक्षा २०२४ तमस्य वर्षस्य मे-मासस्य प्रथमदिनाङ्के भविष्यति।