हिमाचलस्य चतुर्णां उद्ग्रविमानस्थलानां निर्माणाय उडा़नयोजनायां ५२ कोटिरूप्यकाणां बजटं अनुमोदितम्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
भारतसर्वकारस्य उड़ान- ५.१ क्षेत्रीयसंपर्कयोजनायाः (RCS) अन्तर्गतं हिमाचलप्रदेशस्य चतुर्षु विधानसभाक्षेत्रेषु उद्ग्रविमानस्थलानां निर्माणं भविष्यति। एतदर्थं योजनायाः अन्तर्गतं केन्द्रसर्वकाराद् ५२ कोटिरूप्यकाणां बजटं मुक्तं कृतम् अस्ति । प्रत्येकस्य उद्ग्रविमानस्थलस्य निर्माणकार्य्ये १३ कोटिरूप्यकाणि व्ययितानि भविष्यन्ति। एतदर्थं काङ्गड़ाजनपदस्य अन्तर्गतं रक्कड़-पालमपुरयो: किन्नौर-विधानसभाक्षेत्रस्य रिकोंगपियो तथा चम्बायां च स्थलानां चयनं कृतमस्ति।
भारतीयविमानस्थानकप्राधिकरणस्य आरसीएस प्रबन्धकः अतुल्य अग्रवालः अस्मिन् विषये हिमाचलप्रदेशस्य पर्यटन-नागरिक-विमाननविभागस्य प्रमुखसचिवं प्रति बजट-अनुमोदनस्य विषये पत्रं प्रेषितवान् अस्ति। २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २६ दिनाङ्के राज्यसर्वकारेण भारतसर्वकारस्य नागरिकविमानयानमन्त्रालयस्य संयुक्तसचिवं प्रति एतेषां उद्ग्रविमानस्थलानां निर्माणार्थं बजटसम्बद्धं पत्रं प्रेषितम् । परियोजनामूल्यांकनसमित्या २०२४ तमस्य वर्षस्य जनवरीमासे १५ दिनाङ्के आयोजिते सत्रे एतेषां चतुर्णां हेलीपोर्ट्-स्थानकानां बजटस्य अनुमोदनं कृतम् आसीत् ।
अधुना भारतस्य विमानस्थानकप्राधिकरणेन एतेषां चतुर्णां उद्ग्रविमानस्थलानां निर्माणार्थं बजटं विमोचयन् हिमाचलसर्वकाराय निर्देशः दत्तः यत् सः उद्ग्रविमानस्थलानां निर्माणेन संचालनेन च सम्बद्धं कार्यं शीघ्रमेव सम्पन्नं करोतु। तदनन्तरं उपयोगिताप्रमाणपत्रं प्राधिकरणाय प्रस्तोतव्यम्। भारतसर्वकारस्य उड़ान-५.१ क्षेत्रीयसंपर्कयोजनायाः (RCS) अन्तर्गतं हेलीपोर्ट्-निर्माणं क्रियते । नागरिकविमानमन्त्रालयस्य यूडीएएन योजनायां विभीषिकायां चिकित्सावस्तूनां वितरणं, आदिवासीजनपदेषु कृषिजन्यपदार्थानाम् आपूर्तिः, विमानयात्रा इत्यादयः सन्ति ।
धर्मशालाया: विधायक: सुधीरशर्मा अवदत् यत्
क्षेत्रीयसंपर्कयोजनायाः (RCS) UDAN-5.1 इत्यस्य अन्तर्गतं हेलीपोर्टस्य बजटस्य अनुमोदनं प्राप्तम् अस्ति। धर्मशालायां पालमपुरे च हेलीपोर्ट्-स्थानानि निर्मिताः भविष्यन्ति । एतस्मात् पर्यटनव्यापारस्य लाभः भविष्यति।