मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः केलाङ्गत: करिष्यति इन्दिरा-गान्धी-महिला-सम्मान-निधि-योजनाया: आरम्भ:
हिमसंस्कृतवार्ता- शिमला।
मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः २५ फरवरी दिनाङ्के एकदिनस्य लाहौलस्य प्रवासं करिष्यति। अस्मिन् कालखण्डे मुख्यमन्त्री केलाङ्गे शरदोत्सवस्य शुभारम्भं करिष्यति । एतदतिरिक्तं मुख्यमन्त्री इन्दिरागान्धी महिलासम्माननिधियोजानाया: अपि आरम्भं करिष्यति। एतस्य अन्तर्गतं, पात्रमहिलाभ्य: प्रतिमासं १५०० रुप्यकाणि प्रदास्यते। मुख्यमंत्री केलाङ्गे ७०.११ कोटिरूप्यकाणां विभिन्नानां परियोजनानां उद्घाटनानि शिलान्यासान् च करिष्यति।
यद्यपि प्रशासनिककर्मचारिणः मुख्यमन्त्रिणः लाहौलस्य भ्रमणस्य कारणेन सतर्काः अभवन्, तथापि उपत्यकायाः जनाः विकाससम्बद्धा: बहवः महत्त्वपूर्णा: घोषणाः अपेक्षितवन्तः। उपत्यकायाः जनाः वदन्ति यत् लोकसभानिर्वाचनं दृष्ट्वा मुख्यमन्त्री लाहौल-स्पितजनपदाय महतीं घोषणां कर्तुं शक्नोति। मुख्यमन्त्री रविवासरे प्रातः ९:५५ वादने शिमला-नगरस्य अनाडेलचक्रविमानस्थलात् प्रस्थास्यति तथा च १०:५५ वादने स्तीङ्गरी चक्रविमानस्थानके अवतरिष्यति। ततः मुख्यमन्त्री प्रातः ११:१५ वादने मार्गेण पुलिस-प्राङ्गणं प्रति गमिष्यति।