HP Budget Session : केरल-कर्नाटकप्रान्तयो: इव हिमाचलसर्वकारेण अपि स्वस्य अधिकारस्य आग्रहाय दिल्लीं गन्तव्यं भविष्यति – जगतसिंहनेगी
हिमसंस्कृतवार्ता- शिमला।
बजटविषये चर्चायाः अन्तिमे दिने हिमाचलराजस्वमन्त्री जगतसिंहनेगी केन्द्रं लक्ष्यं कृत्वा केन्द्रं हिमाचलस्य विरुद्धं निरन्तरं भेदभावं कुर्वन् अस्ति इति अवदत्। सः अकथयत् यत् केन्द्रसर्वकारः न केवलं हिमाचलस्य विरुद्धं भेदभावं करोति अपितु भाजपाशासनरहितराज्येषु अपि भेदभावं करोति। सः अवदत् यत् हिमाचलस्य अधिकारं ग्रहीतुं दिल्लीनगरस्य जन्तर-मन्तरं अपि गन्तव्यं भविष्यति।
गुरुवासरे हिमाचलप्रदेशविधानसभायां २०२४-२५ वर्षस्य राज्यबजटविषये चर्चायाः अन्तिमदिने सत्ताधारीदलम् विपक्षम् च शब्दबाणैः परस्परं आक्रमणं कर्तुं प्रयतन्ते स्म। सत्ताधारी दलेन केन्द्रे हिमाचलस्य विरुद्धं विशेषतः आपदासमये भेदभावः इति आरोपः कृतः, तत्र विपक्षस्य सदस्याः अवदन् यत् बजटे मिथ्याघोषणा कृता अस्ति। अस्माद् कारणात् सदनस्य वातावरणम् अतीव उष्णं जातम्, (विधानसभाध्यक्षः कुलदीपसिंहपठानिया वातावरणं शान्तं कर्तुं अनेकवारं हस्तक्षेपं कृतवान्।
हिमाचलाय अभवत् वित्तीय-हानि: – जगतसिंहनेगी
भाजपायाः विषये कटाक्षं कृत्वा नेगी अवदत् यत् भाजपा अद्यापि बालदलम् एव अस्ति, तस्याः जन्म २०१४ तमस्य वर्षस्य अनन्तरं अभवत्। सः अवदत् यत् भाजपायाः जनाः अद्यापि बालकाः एव सन्ति। अत एव ते रूदन्ति एव, परन्तु वयं तान् क्षमामः। सः अवदत् यत् योजना-आयोगः, वित्त-आयोगः इत्यादयः संस्थाः पूर्वं केन्द्रस्य राज्यानां च मध्ये श्रृंखलारूपेण कार्यं कुर्वन्ति स्म, परन्तु केन्द्रेण ता: समाप्य एतत् सम्बन्धं भग्नम् अस्ति। अस्माद् कारणात् हिमाचलसदृशस्य राज्यस्य महती आर्थिकहानिः अभवत् ।