HP Budget Session : हिमाचलाय विकासयोजना- निर्मातु: आवश्यकता: राजेश धर्माणी
हिमसंस्कृतवार्ता- शिमला।
तकनीकीशिक्षा तथा नगर-नियोजनं (टीसीपी) मन्त्री राजेशधर्माणी उक्तवान् यत् हिमाचलाय विकासयोजना निर्मातुं आवश्यकता वर्तते। अधुना शिमलानगरस्य विकासयोजना कृता। चरणबद्धरूपेण हिमाचले भवननिर्माणार्थं सम्पूर्णराज्यस्य कृते एषा योजना आवश्यकी अस्ति। सः अवदत् यत् आपत्काले हिमाचलप्रदेशे तानि एव भवनानि क्षतिग्रस्तानि अभवन् येषां संरचनात्मकविन्यासः सम्यक् नासीत्। राज्यम् अग्रे सारयितुं शिक्षाव्यवस्थायाः सुदृढीकरणम् आवश्यकम् इति सः अवदत्।