HP Budget Session: हिमाचलविधानसभायाम् औषधप्रसाधनविधेयकं निवृत्त्यै प्रस्तावः पारितः
हिमसंस्कृतवार्ता- शिमला।
स्वास्थ्य एवं परिवारकल्याणमंत्री डॉ. धनीरामशांडिल: औषधि एवं प्रसाधनसामग्री हिमाचलप्रदेश- संशोधनविधेयक- २०१६ इत्यस्य प्रतिहर्तुं प्रस्ताव: सदने उपस्थापित:। सदनस्य अनुमोदनेन एषः प्रस्तावः निवृत्तः। अस्मिन् विधेयकेन एकं प्रावधानं कृतमासीत् यत् मादकद्रव्यस्य ग्रहणस्य सन्दर्भे पूर्वं अपराधस्य प्रमाणीकरणस्य भारः अभियोजनपक्षस्य उपरि आसीत्, परन्तु अधुना अभियुक्तस्य दायित्वं भविष्यति यत् सः दोषी नास्ति इति सिद्धं कुर्यात्। एतद् प्रत्याभूति रहितं संज्ञेयम् च अपराधं कर्तुम् अपि अनुशंसितम् आसीत्।
पूर्वकाङ्ग्रेससर्वकारे राज्यसभायां एतत् विधेयकं प्रस्तावितं आसीत्। राष्ट्रपते: सहमत्या राज्यपालस्य कार्यालयद्वारा २०१६ तमस्य वर्षस्य नवम्बर्-मासस्य ४ दिनाङ्के प्रसारितम्।
अस्मिन् सन्दर्भे केषुचित् बिन्दुषु भारतसर्वकारेण २५ अप्रैल २०१७ दिनाङ्के स्पष्टीकरणं याचितं, यत् १९ सितम्बर् २०१७ दिनाङ्के केन्द्रसर्वकाराय प्रेषितम्। केन्द्रीय- स्वास्थ्य- परिवारकल्याणविभागेन अपि अस्मिन् विषये स्थितिः स्पष्टीकृता। एषः विषयः २०१९ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के केन्द्रसर्वकाराय प्रेषितः। केन्द्रसर्वकारेण २०२२ तमस्य वर्षस्य जूनमासस्य २० दिनाङ्के सूचितं यत् अस्मिन् विधेयकस्य हिमाचलप्रदेशसर्वकारेण प्रस्तावितानां संशोधनानाम् औषधप्रसाधन- संशोधनविधेयके २००८ तमे वर्षे पूर्वमेव प्रावधानं वर्तते। राज्यसर्वकारेण एतत् विधेयकं निवृत्तं कर्तुं विचारणीयम्। अस्य विधेयकस्य निवृत्तेः निर्णयः २०२४ तमस्य वर्षस्य जनवरी-मासस्य १२ दिनाङ्के राज्यमन्त्रिमण्डलस्य सत्रे एव कृतः अस्ति।