हिमाचल प्रदेशस्य राजधानी शिमलाया: श्यामलाघाट स्थिते ज़िला शिक्षण- प्रशिक्षण- संस्थाने सेवारतानां संस्कृत- शिक्षकाणां पञ्चदिवसीयं प्रशिक्षणं प्रारब्धम्
हिमसंस्कृतवार्ता:- शिमला
गतदिवसे शिमलाया: श्यामलाघाट स्थिते ज़िलाशिक्षणप्रशिक्षण संस्थाने सेवारतानां संस्कृतशिक्षकाणां पञ्चदिवसीयं प्रशिक्षणं प्रारब्धम्। अस्मिन् प्रशिक्षणे जनपदस्य विविध खण्डेभ्य: ५० शिक्षका: भागं गृहीतवन्तः।
कार्यशालाया: आरम्भ: दीपप्रज्वलनेन सरस्वती वन्दनया अभवत्। तदन्तरं सर्वेषां शिक्षकाणां संस्कृते परिचय: अभवत्। अस्यां कार्यशालायां शिक्षण संस्थानस्य प्रधानाचार्यवर्या: श्री जयदेव नेगी महोदया:, ज़िला- शिक्षणप्रशिक्षणसमन्वयक: कृष्ण गाजटा महोदया: अपि स्वोद्बोधनं कृतवन्त:।
कार्यशालाया: प्रथमसत्रे डॉ. प्रेम शर्मा, द्वितीयसत्रे कामेश्वर शर्मा, तृतीयसत्रे डॉ. मदनमोहन शर्मा, चतुर्थसत्रे च गुलशन शर्मा स्व- स्वविषयोपरि व्याख्यानं दत्तवन्त:।